वीरमित्रोदयस्य श्राद्धप्रकाशे- परस्परसंवादेनैव प्रामाण्यं स्यात्तदैतत्कथनं युज्यते, न च तदस्ति, मुनिवाक्यानां स्वतन्त्राणामेव श्रुतिकल्पकत्वादिति । न च तस्यैव वाक्यस्य तर्ह्यप्रमाण्यमापद्यतेति वाच्यम् । तस्य पार्वणविधायक वाक्यशेषत्वेनापि प्रमाणत्वात् । एतञ्च साग्न्यौरसक्षेत्रजपुत्रिकापुत्रै रव्यमावास्याप्रेतपक्षयोरेव क्षयाहे पार्वणं कार्य । अमावास्यां क्षयो यस्य प्रेतपक्षेऽथवा भवेत् । पार्वणं तस्य कर्त्तव्यं नैकोद्दिष्टं कदाचन ॥ इति तेनैव पार्वणस्मृतौ विहितत्वात् । न चैवं सति तेषामेतस्कालातिरिक्तकाले श्राद्धाधिकारविध्यभावाच्छ्राद्धमेव कालान्तरे क्षयाहे सति न स्यात् "एकोद्दिष्टं सुता दश" इति वचने एकोदि ष्टस्य तान्प्रत्येव विहितत्वात्पार्वणस्य चैतत्कालमात्र विषयत्वादिति वाच्यम् । न ह्यत्र कालो नियम्यते, किन्तु अमावास्याक्षयादिरूपे काले साग्न्योरौरसक्षेत्रजयो: पार्वणम् । एवं च तदतिरिके काले सामान्यविद्दितमेतेषामध्ये कोद्दिष्टमेव पूर्वोदाहृतवाक्यैरेको द्दिष्टस्य सामान्यतो विहितत्वात् । तस्मात्साग्न्योरौरसक्षेत्रजयोरमावास्यायां प्रेतपक्षे वा मृतस्य पार्वणम् । अन्येषामेतेषामपि च कालान्तरे एको दिष्टमिति । हेमाद्रिस्तु । ३२६ आपाद्य सहपिण्डत्वमौरसो विधिवत्सुतः । कुर्वीत दर्शवच्छ्राद्धं मातापित्रोः क्षयेऽहनि ॥ औरस क्षेत्रजौ पुत्रौ विधिना पार्वणेन तु । प्रत्यब्दमितरे कुर्युरेकोद्दिष्टं सुता दश ॥ इत्यादिजमदग्निजावालिचा क्यैरीर सक्षेत्रजयोस्तरसमस्व पुत्रिका पुत्रस्य च पार्वणं तदपि सानीनाम् । म पैतृयज्ञियो होमो लौकिकेऽग्नौ विधीयते । न दर्शन विना श्राद्धमाहिताग्नेर्द्विजन्मनः ॥ [ मनु० अ० ३ श्लो० २८२] इति मनुवचनेनाहिताग्नेर्दर्शेन विना दर्शोपलक्षितविधि विना श्राद्धाभावकथनात् । तथा । अग्निप्रधानं सर्वेषामनुष्ठानं गृहाश्रमे । तद्योगात्कृत सामर्थ्यात्सर्वत्राहन्ति पविणम् ॥
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३३६
दिखावट