परिवेषणप्रकार: । स्कान्दे ।
पायसं गुड़संयुक्तं हविष्यं गुडपूरितम् ।
नमो वः पितरो रसाय परिविषन्नभिमन्त्रयेत् ॥
तेजोसि शुक्रमित्याज्यं दधिक्रावणेति वै दधि |
क्षीरमाप्यायमन्त्रेण व्यञ्जनानि च यानि तु ॥
भक्ष्यभोज्यानि सर्वाणि महा इन्द्रेण दापयेत् ।
संवत्सरोसि मन्त्रं तु जप्वा तेनोदकं द्विजः ॥ इति ।
हारीतः ।
न पङ्क्त्यां विषमं दद्यादिति ।
परिवेषणं च दक्षिणहस्तेन कर्त्तव्यम् ।
कर्मोपदिश्यते यत्र कर्त्तुरङ्गं न तूच्यते ।
दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः ॥
इति छन्दोगपरिशिष्टादिति मिश्राः ।
उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेषयेत् ॥
एकेन पाणिना दत्तं शूद्धदत्तं न मक्षयेत ॥
इति वचनादुभाभ्यां हस्ताभ्यामिति गौड़ाः | हस्ताभ्यामित्यस्याहत्येत्यनेनान्वयादेकेनेत्यस्य च केवलेनेत्यर्थान्मिश्रमतमेव श्रेयो
भाति । अत एव -
वशिष्ठः ।
यमः ।
ल्वषम् ॥
हस्तदत्ताश्च ये स्नेहा लवणं व्यञ्जनानि च ।
दातारं नोपतिष्ठन्ति भोक्ता भुने च
तस्मादन्तरितं देयं पर्णेनाथ तृणेन वा ॥ इति ।
ब्राह्मण परिवेषणसमये च पिण्डार्थमध्येकस्मिन् पात्रे परिवेषयेत् ।
तथा च माझे |
ततोऽन्नं सुरसं स्वाद्वित्युपक्रम्य -
ब्राह्मणानां च प्रददौ पिण्डपात्रे तथैव च इति ।
ब्राह्मणानं ददच्छ्रतः शूद्राक्षं ब्राह्मणो ददत् ।
तयोरनमभोज्यं तु भुक्त्या चान्द्रायणं चरेत् ।
ददत्पात्र इति शेषः । उपनयन्निति मिश्राः । इति परिवेषणम् ।