पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आवाहनप्रकारः। २०३ विश्वेदेवास इत्याभ्यामावाह्य विकिरद्यवान् । (१)यवोऽसि धान्यराजस्त्वं वारुणो (२)मधुमिश्रितः ॥ निर्णोदः सर्वपापानां (३)पवित्रमृषिसयुतम् । झते । अत्र कात्यायनसुत्रे आसनषु दर्भानास्तीय विश्वान् देवानावाहयिष्य इति दर्भास्तरणावाहनयोरानन्तर्यविधानाद् यदासनदानोत्तरकालीनं तृतीयं निमन्त्रणमाम्नातं तदापस्तम्बविषयम् । हेमाद्रिस्तु दर्भानास्तीर्यत्यनेन दर्भासनदानस्य पूर्वकालतायामभिधीयमाना यामपि स्मृत्यन्तरानुसारान्मध्ये निमन्त्रणानुष्ठानऽपि न पूर्वकाल. ताश्रुतिविरोधभी, इत्याह । एतदावाहनं च निरङ्गुष्ठं ब्राह्मणदक्षिणहस्तं गृहीत्वा कर्तव्यम् । तदुक्त ब्रह्मपुराणे । देवानावाहयिष्ये तत्प्राहुरावाहयेति च । मिरङ्गुष्ठं गृहीत्वा तु विश्वान् देवान् समाह्वयेत् ॥ अपरे तु विप्राङ्गुष्ठं गृहीत्वेति पाठमाहुः । अत्र विश्वेषा देवाना पुरुरवावादिनामाद्यज्ञाने विशेषमाह- नाम चैव तथोत्पत्ति न विदुर्य द्विजातयः। श्लोकमेतं पठेयुस्ते ब्राह्मणाना समीपतः॥ आगच्छन्तु महाभागा इति श्लोकात्मकं मन्त्रं वैश्वदेविकं प्रा. ह्मणसमीपे "विश्वेदेवाः शृणुतेम"मिति जपानन्तरं जपेयुरित्यर्थः । तथाच पुराणं- ततो मन्त्री जपेन्मौनी विश्वेदेवास आगत । विश्वेदेवाः शृणुतेति द्वितीयं तदनन्तरम् ॥ तृतीय तु जपन्मन्त्रमागच्छन्त्वित्यतः परम् । इति । विश्वेदेवास आगतेत्यनया ऋचा प्रथममावाह्य तदनन्तरं "विश्वेदे. वाः शृणुते"ति द्वितीयं मन्त्रं जपित्वा अतः परं “आगच्छन्तु महाभागा" इति तृतीय मन्त्र जपेदित्यन्वयः । एतच्च प्रागुक्तम् । अत्र वैश्व (१) यवोऽसि धान्यराजो वा इति अन्यत्र पाठ: । (२) मधुसंयुत इति पुस्तकान्तरे पाठः । (३) पवित्रमषिभिः स्मृत इतीतरत्र पाठः ।