सामग्री पर जाएँ

पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३२ वीरमित्रोदयस्य श्राद्धप्रकाशे- पवित्र परमं ह्येतत् श्रीमद् रक्षोविनाशनम् | एतेन विधिना युक्तस्त्रीन् वरान् लभते नरः || अनमायुः सुतांश्चैव ददते पितरो भुवि । भक्त्या परमया युक्तः श्रधानो जितेन्द्रियः ॥ सप्तार्चिषं जपेद्यस्तु नित्यमेव समाहितः । सप्तद्वीपसमुद्रायां पृथिव्यामेकराड् भवेत् ॥ अथ पितृस्तव । मार्कण्डेयपुराणे । ब्रह्मा चाह रुचि विप्रं श्रुत्वा तस्याभिवाञ्छितम् । प्रजापतिस्त्वं भविता स्रष्टव्या भवता प्रजाः ॥ सृष्टा प्रजाः सुतान् विप्र समुत्पाद्य क्रियास्तथा । कृताकृताधिकारस्त्वं ततः सिद्धिमवाप्स्यसि ॥ सत्वं यथोक्तं पितृभिः कुरु दारोपसङ्ग्रहम् । कामं चेममनुध्याय कुरु तत् पितृपूजनम् ॥ एवं च तुष्टाः पितरः प्रदास्यन्ति तवेप्सितम् । पत्नी सुतांश्च सन्तुष्टाः किं न दधुः पितामहाः ॥ मार्कण्डेय उवाच । इत्यूषे वंचन श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः । नद्या विविक्ते पुलिने चकार पितृतर्पणम् || तुष्टाव च पितॄन् विप्रस्तवैरेभिरथाऽऽहतः । एकाग्रप्रयतो भूत्वा भक्तिनम्म्रात्मको रुचिः ॥ रुचिरुवाच । नमस्येऽहं पितॄन् भक्त्या ये वसन्त्यधिदेवताः । देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वघोत्तरैः ॥ नमस्येऽहं पितॄन् स्वर्गे ये तर्ध्यन्ते महर्षिभिः । श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः || ममस्येऽहं पितॄन् स्वर्ग्यान् ते च सन्तर्पयन्ति तान् । श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥ नमस्येऽहं पितॄन् भक्त्या येऽर्यन्ते गुह्यकैर्दिधि । तन्मयत्वेन बाइछद्भिवृद्धिमात्यन्तिकीं शुभाम् ॥