पृष्ठम्:Trikanda-mandana.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयकाराम् । १३३ वेदिसन्नमनार्थाय रज्जोराकर्षणे यदि। महीतलं न पर्याप्तं तमं विधिमाचरेत् ॥ १४२ ॥ श्रोण्यंसदेशान्तरालमात्रौं रज्जु विधाय तु । तस्य द्वादशकं भागमपरं तब निक्षिपेत् ॥ १४३ ॥ रज्जुस्त्रयोदशांशेन शङ्कौ न्यस्ता यथा स्पृशेत् । श्रोण्यंसयोरन्यतरं तावदुरे निहन्ति तौ ॥१४४ ॥ शङ्खदक्षिणश्रोण्यंसौ दक्षिणेन ततस्तयोः । शङ्कोर्निक्षिष्य तत्याशौ तां रज्जतदनन्तरम् ॥१४५॥ श्रोणिं प्रति समावष्य तत आरभ्य चांसतः। दृढ़कायें लिखन्नेव वेदिं दक्षिणतो नमेत् ॥ १४६ ॥ एवमुत्तरतो नामः पूर्वपश्चिमतोऽपि च । यस्यां दिशि नमेदिस्तस्यां श्रोण्यंसतो वहिः॥१४७॥ श्रोणिभ्यां च तथाऽशाभ्यां हौ हौ शङ्क वहिः क्षिपेत् । रज्जुई योईयोः शवोः पूर्ववत् न्यस्य नामयेत्॥१४८॥ पूर्वपश्चिमयोरज्जुस्तत्तन्मानानुसारिणी। तत्तद्रज्वनुसारेण तत्तच्छङ्कोर्वहिः क्रिया ॥ १४६ ॥ वेदौति । एषा च प्रक्रिया याज्ञिकेभ्योऽवगन्तव्या ॥१४२॥ १४३॥१४४॥१४५॥१४ ६॥१४ ७॥१४८॥१४६॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Trikanda-mandana.pdf/१५४&oldid=351079" इत्यस्माद् प्रतिप्राप्तम्