पृष्ठम्:ThaaravalistotramSanskrit.djvu/१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

।। शिवाभ्यां नमः ।। ।। तारावली स्तोत्रम् ।। निरवधिकरुणाद्धैर्निबताशेषदोषैः . अमृतरसझराणां अन्तरङ्गैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। श्रियमवनतिभाजां श्रेयसामादधानः अमृतरसतरङ्गश्रीधुरीणैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। गजमुखशरजन्मप्रेमगाढोपगूढैः __नगदुहितुरमन्दानन्दमूलैरपाङ्गैः। अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। गिरिवरतनयायाः केळिकोपे नतस्तत् ___ चरणनखरुचिश्रीवर्मितैरीक्षणैर्द्राक्। अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। स्मरहरदयनीयास्मीत्युमायां वदन्त्यां दरहसितमुखेन्दुस्तामपाङ्गैः पिबद्भिः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। नमदमरकिरीटक्रीडदुद्दण्डशुण्डा- मुखमिभमुखमारादापिबद्भिः कटाक्षैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। समदधत मृकण्डोरात्मजे चोपमन्यौ समभिलषितसिद्धिं ये कटाक्षाङ्करास्तैः। अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:ThaaravalistotramSanskrit.djvu/१&oldid=214172" इत्यस्माद् प्रतिप्राप्तम्