पृष्ठम्:TSS-018 Narayaniyam with Bhaktapriya Commentary - TG Sastri 1912.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये दक्ष इति । धातुर्ब्रह्मण अतिलालनया प्रजापतीनामा विपत्ये संस्थाप्या- भिषेकादिरूपया रजसा तत्कार्येण कामकोषलोभादिना अन्धो विवेकशून्य; अत एव ब्रह्मणापि नात्याद्वतः उपेक्षित: अशान्तिरविद्यमाना शान्तिः क्षमा यस्य स अशान्तिरक्षम आसीत् । येनाशान्तित्वेन स दक्षो भवत्तनुं त्वदंशभूतमेव शर्वं व्यरुन्ध द्वेष्टि स्म, यज्ञे दक्षाध्वरे वैरपिशुने दक्षशर्ववैरथोतके स्वसुतां शर्य- पत्नीं सती व्यमानीद् अवमानितवान् ॥ ९ ॥ कुद्धेशमर्दितमखः स तु कृत्तशीर्षो देवमसादितहरादथ लब्धजीवः । त्वत्पूरितक्रतुवरः पुनराप शान्ति स त्वं प्रशान्तिकर ! पाहि मरुत्पुरेश ! ॥ १० ॥ कुद्धेशेति । स्वप्रियायमानेन क्रुद्धेनेशेन मर्दितश्चूर्णीकृतो मखस्तदुपकर णयज्ञपात्रयूपशालादिर्यस्य सः स्वयं च दक्षः कृत्तशीर्षोऽभवत् । अथ देवैः प्रसादिताद्धराद् लब्धजीव अजमुखश्चाभूत् । ततस्त्वया पूरितः सम्यक् समापित्तः ऋतुवरो यस्य स दक्षः पुनः शान्ति स्वां प्रकृतिमाप | हे प्रशान्तिकर ! एवंप्रभावः सत्वं पाहि ॥ १० ॥ इति नरनारायणचरितवर्णनं दक्षयागवर्णनं च षोडशं दशकम् । EN'S एवं मनुपुत्रीणां परम्परां वर्णयित्वा तत्पुत्रपरम्परां वर्णयिष्यन् प्रथमं ध्रुवन्वरि- सार्थमुत्तानपादचरितमाह -- उत्तानपादनृपतेर्मनुनन्दनस्य जाया बभूव सुरुचिर्नितरामभीष्टा । अन्या सुनीतिरिति भर्तुरनादृता सा त्वामेव नित्यमगतिः शरणं गताभूत् ॥ १ ॥ उत्तानेति । उत्तानपादाख्यस्य नृपतर्मनोः स्वायम्भुवस्य नन्दनः प्रिय-