पृष्ठम्:SukavihRdayAnandinI.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अगादित्यंत्यव्यञ्जनस्यांतःपुरेणेत्यकारेणः सह संधिर्न भवति । समासेऽपि न त्वेवं यथा ।

सुरासुरशिरोरत्स्फुरच्चरणमञ्जरी-

पिंजरीकृतपादाब्जद्न्द्रं वन्दामहे शिवमिति ।

समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके ।

व्यक्तविभक्तिके“ प्रकटविभक्तिके । अव्यक्तविभक्तिके समासान्तविभक्तिके । तयोरुदाहरणं यथा ।

यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु" इति ।

व्यक्ताव्यक्तविभक्तिक इति यतिः सर्वत्र पादान्त" इत्यनेन सह संबध्यते । वस्त्रीकृतजगत्काल्रं कण्ठेकाल नमाम्यहम्‌ ।

महाकालं कल्राशेषं शशिल्ेखाशिखामणिम्‌ ॥

अपि च |

नमस्तुगशिरश्चुम्बिचन्द्रचामरचारवे ।

त्रैलोक्यनगरीरभमूलस्तम्भाय शम्भवे ॥

क्वचित्तु पदमध्येऽपि समुद्रादौ यतिर्भवेत्‌ ।

यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥

यथा |

“पर्यास तस्तचामीकरकटकतटे श्चिष्टशीतेतराशा"विति ।

समुद्रादाविति किम्‌ । पदमध्ययतिर्षदान्ते मा भूत्‌ । यथा । प्रणमत भवबधक्लेशनाशाय नारायणचरणसरोजद्रन्द्रमानं दहैतुःरिति ॥

पूर्वोत्तरभागयोरेकाक्षरत्वे* तु पदमध्ये यतिष्यति । यथा । "एतस्या गण्डतलममवतं गाहवे चन्द्रकक्षा"मिति ।


° पाठे त्ागादित्यंत्यव्यञ्जनस्यांतःपुरेणेत्यकारणे ।

> पाठे व्यक्तविभके |

ॐ पाठे अव्यक्तर्विभक्तिके ।

° मेघदूतम्‌ १.१ कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥

ॐ पाठे पटान्त ।

> पाठे समुद्रादिति ।

% पाठे पूर्वैतरभागयोरेकाक्षरत्वे ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/९&oldid=371377" इत्यस्माद् प्रतिप्राप्तम्