पृष्ठम्:SukavihRdayAnandinI.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरुणं सर्षपशाकं नवोटनं पिच्छलानि दधीनि ।

अल्पव्ययेन सुंदरि ग्राम्यजनो मिष्टमश्नाति । इत्युदाहरणमार्यया प्रदर्शितम्‌ । आर्यायां पादव्यवस्था नास्ति । पूर्वार्धोत्तरार्धग्रहणात्‌ पूर्वरधेत्तरार्धमित्यार्यालक्षणं कुर्वाणो ग्रन्थकार एवं जापयति । तावदार्यायां पादव्यवस्था नास्ति पैगलीयसूत्रपाठाच्च । स्वराऽर्धञ्चार्यौर्धमिति” । तस्मात्पदादाविति पाठः । श्रेयानित्यलमिति प्रसंगेन ॥ ११

अथ सज्ामाह । अब्धिभूतरसादीनां जेयाः संज्ञास्तु लोकतः । जेयः पादः चतुर्थाशो यतिर्विच्छेदसंजिता ॥ १२

तयथा । चत्वारोऽब्धिवेदाः । पञ्च शरेन्द्रियाणि । षट्चर्तवः | सप्त स्वरर्षयः । अष्टौ वसवः । नव नंदरन्ध्राणि । टश दिशाः । एकादश रुद्राः । द्वादशादित्याः । त्रयोदश विश्चेदेवाः । चतुर्दश भुवनानि । पञ्चदश तिथय इत्यादि ।

पादलक्षणमाह । जेयो पादः चतुर्थांशो । वक्ष्यमाणलक्षणस्य वृत्तस्य चतुर्थशो भागः पादसंनो भवेत्‌ ।

अथ यतिमाह ।

यतिर्विच्छेदसंजिता । यतिर्विरामादिराचार्यपारंपर्यागता संजेयमध्यात्पदच्छिन्नाक्षरेषु कर्तव्या । अब्ध्यादि शब्दादि सांकाः कृत्वा यतिरित्यनेन सह संबध्यन्ते“ । इत्ययमर्थः शिष्यन्ति ।

तत्राहूराचायीः

“यतिः सर्वत्र पादान्ते क्लोकार्थे तु विशेषतः ।

समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके“ ॥

क्वचिततु^ पदमध्येऽपि समुद्रादौ यतिर्भवेत्‌ ।


ॐ पाठे मिष्टमष्णाति ।

  • पिगलसूत्र ४.१४

स्वरा अर्धञ्चार्यार्धम्‌। ॐ पाठे षट्सर्तवः । ॐ पाठे दिशा । ^ पाठे तिथयेत्यादि । “ पाठे यतिर्विश्रामसंजता । “ पाठे शब्दा-सांकाभ्यामन्तर्गतं किच्चित्प्रोज्ज्ितमष्पष्टं च । ^ पाठे संबध्यन्ते | “4 पाठे व्यक्तव्यक्तविभक्तिके । ^ पाठे क्वाचितु ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/७&oldid=371374" इत्यस्माद् प्रतिप्राप्तम्