पृष्ठम्:SukavihRdayAnandinI.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दरौ नगणौ सगणो गुरुदयं यस्य पादे तदृतं वृन्ता नाम । अत्र मण्डूकप्लुतन्यायेन शाविन्युक्तेति सूत्रादन्धिलोकैरिति पदमनुवर्तते । तेन हि! चतुर्भिर्यतिः । यथा । मधुकरचरणभरक्रान्तं पथ तदिह कुसुममिदं वृन्तात्‌ ।

कथयति विषयवियुक्तानां विधिपरिणतिमिव लोकानाम्‌ ॥ ४४

ननरलगुरुभिश्च भद्रिका | ४५

टौ नगणौ रगणो लघुगुरू च यत्र तदत भद्रिका नाम | यथा | विविधपरकथाप्रगल्भवागतिविरलविसंस्थुलद्विजा | कपितलचिकुरसचया कृशा न भवति वनिता प्रभद्रका ॥ ४५

श्येनिका रजौ रलौ गुरु्यदा । ४६

रगनजगणरगणा लघुगुरू च यत्र तदृततं श्येनिका नाम । यथा । श्येनिकाशृगालसंकुते रणे विंध्यवर्मदेव ये त्वया हताः । शत्रवस्त एव तारकाश्रयं तन्वते विमानगाः सुरावृताः ॥ ४६

उपस्थितमिदं ज्सौ ताद्रकारौ । ४७

जगणसगणतगणा द्वौ गुरु च यत्र तदृतं उपस्थितं नाम । यथा । उपस्थितमनेकाश्वेतकी चुलुक्यनृपतेः सैन्यं विशालम्‌ । अवन्िप्रिय निहित्वा न कोऽपि धरुवं क्षितितले जेतुं समर्थः ॥ ४७

शिखण्डितमिदं ज्सौ त्गौ गुरुश्वेत्‌ । ४८ जगणसगणौ तगणगुरू गुरुशवत्तदृत्तं शिखण्डितं नाम । यथा । ४८

मौक्तिकमाला भवेद्धभ्तलगाः । ४९ भगणभगणतगणलघुगुरवो यत्र भवेत्तदृत्तं मौक्तिकमाला नाम । यथा | ४९

जगत्याम्‌ ।


174 पाठे ह । 15 उदाहरणं नास्ति । 15 उदाहरणं नास्ति ।

39

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/३९&oldid=371605" इत्यस्माद् प्रतिप्राप्तम्