पृष्ठम्:SukavihRdayAnandinI.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विस्तारेण बरहिंभाररम्या बर्हिणी मयूरसारणीयम्‌ । गर्जितं निशम्य वारिदानां नृत्यति प्रमोदनिर्भराङ्गी ॥ २७

भमौ सगयुक्तौ रुक्मवतीयम्‌ । २८

भअरगणमगणसगणा गुरुश्च“ यत्र तदृतं रुक्मवती नाम । यथा | चेतसि यस्या जीवितनाथस्तत्प्रियकायीसक्तमनस्का | देवगुरुश्श्रद्धिजभक्ता रुक्मवती स्यात्कीर्तिमती वा ॥ २८

जेया मत्ता मभसगयुक्ता । २९

मगणभगणसगणगुरवौ यत्र तद मत्ता नाम । चतुर्भिर्यतिरित्याम्नायः | यथा । यच्चूताग्रे स्मरशरबधौ बद्धावासा पिकसहवयः । गायन्त्येताः कलत्रमिति मत्तास्तन्मध्येऽहं सखि मधुरेषः ॥ २९

नरजगैरवेन्मनोरमा | ३०

यत्र नगणरगणजगणगुरवो तदत मनोरमा नाम । यथा | युवतिरिवुमुदरानना पृथुघनस्तनी कृशोदरी । गुरुनितम्बभारमथरा हरति मे मनौ मनोरमा ॥ 3°

त्जौ जो गुरुणेयमुपस्थिता । ३१

तगणजगणौ जगणौ गुरुश्च तदृत्तं उपस्थिता नाम । अत्र द्वाभ्यामष्टभिश्च यतिरित्येके । यथा |

त्यक्त्वा“ निजशस््रमुपस्थिता^^ ये प्रांजलयस्तव शत्रवः ।

तेषामवनीश्चर जीवितं दत्तं भवता समराजिरे ॥ ३९

त्रिष्टुभि

स्यादिन्द्रवज्रा यदि तौ जगौ गः । ३२


14 पाठे गुरश्च । 144 पाठे त्यक्ता । 14 पाठे निजशास्रमुपस्थिता |

35

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/३५&oldid=371600" इत्यस्माद् प्रतिप्राप्तम्