पृष्ठम्:SukavihRdayAnandinI.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वदन्तिदन्तलग्नोरुशाखाः पथ्यायताः द्रुमाः । कथयन्तीव भग्नानां दिग्जयं तव भूपते ॥ २२

ओजयोर्जेन वारिधैस्तदेव विपरीतादि । २३

विपरितपथ्येत्यर्थः । युक्पादे यगण एव कर्तव्यः । यथा । विपरीतान्यपि प्रियः कुर्वाणो मुदमाधत्ते । अनुकूलस्त्वसौ सदा तेन प्राणाधिको नूनम्‌ ॥ २३

चपलावक्त्रमयुजौर्मकारणश्चेत्पयोराशेः । २४

यद्ययुजोविषमयोः पादयोश्चतुर्थादक्षरान्नगणौ भवेत्‌ तदा वक्त्रमेव चपला भवति । युक्पादयोर्यगण एव । यथा ।

चपलापांगनयने पक्वबिम्बोष्ठि चन्द्रास्ये ।

स्वाधीनत्वं भज दयितं तारुण्यमस्थिरं यस्मात्‌ ॥ २४

यस्यां लः सप्तमो युग्मे सा युग्मविपुला मता । २५

युक्पादे द्वितीयचतुर्थे लघुः सप्तमो यस्याः सा युग्मविपुला नाम । ननु पथ्यालक्षणसाम्यात्पुनरुक्तमेतत्‌ । नैवम्‌ । विपुलाधिकारस्येदानीमारभ्यमानत्वात्‌ विनाऽनुत्पत्तिः पथ्यालक्षणं त्वयुक्पादे अवश्यमेव यगणेन भवितव्यम्‌ | अत्रतुन नियमः | यथा ।

अहो कस्यापि धन्यस्य महाकुलप्रसूतया ।

प्रीतिः स्वकान्तया सार्धं विपुत्रा जायते गृहे ॥ २५

सैतवस्याखितेष्वपि । २६

सैतवस्याचार्यस्य मतेन चतुर्ष्वपि पादेषु सप्तमो लघुः कर्तव्यः । यथा । अहो धन्यस्य कस्यचित्सुकवेर्जायते"" मतिः । नूनं ययाधिक्रियते सैतवं काव्यमुत्तमम्‌ ॥ २६

भेनाब्धितो भाद्विपुला । २७


% पाठे युग्पादे । 100 पाठे यायते |

21

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/२१&oldid=371587" इत्यस्माद् प्रतिप्राप्तम्