सममर्धसमं वृत्तं विषमं च तथा परम् ॥ १३८२)
छन्दसि वर्तत इति । वृत्तं वक्ष्यमाणलक्षणं त्रिधा भवति । सममर्धसमं विषमं चेति । तत्र समं सर्वावयवत्वात्समम् श्रीप्रभृति अर्धसममुपचित्रादि विषमं पदचतुरू्धौदि । एतेषां प्रत्येकं लक्षणमाह ।
अङ्ध्रयो यस्य चत्वारस्तुल्यलक्षणवक्षिताः । तच्छदशाखतत्वज्ञा समं वृत्तं प्रचक्ष्यते ॥ १४
यस्य वृत्तस्य चत्वारोऽपि पादाः समलक्षणभाजो भवन्ति । तदृतं समं छन्दोविद्धिराचक्ष्यते ।
अथार्धसममाह । प्रथमाइध्रिसमौ यस्य तृतीयश्चरणो भवेत् । द्वितीयस्तुर्यवदृततं तदर्धसममुच्यते ॥ ९५
यस्य वृत्तस्य प्रथमतृतीयपादौ तुल्यलक्षणौ भवतः । द्वितीयचतुर्थौ च । तदृतं अर्धसममुच्यते ।
विषमलरक्षणमाह । यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम् । तदाहूर्विषमं वृत्तं छन्दःशास्रविशारदाः ॥ १६
यस्य वृत्तस्य चतुर्ण्वपि पादेषु भिन्नमन्यादशं परस्परं लक्षणं भवति तद्विषममित्याहूराचार्यौः |
अथ वृत्तानां पादं नियमन्नाह । आरभ्यैकाक्षरात्पादादेकैकाक्षरवर्धितैः | पृथक्छन्दो भवेत्पादैर्यावत्षड्विंशतिं गतम्” ॥ १७
५ पाठे सर्वावयवात्वात्समम् । ^ पाठे श्रीःप्रभूति ।
९ पाठे पटाः ।
5 पाठे यस्या ।
५५ पाठे गतिम् |