पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ सिद्धान्तशिरोमणी ग्रहगणिते मायां नित्यमस्तमनदर्शनात् पश्चिमगतौ किञ्चित् कारणेन भाव्यम् । अश्विनीस्थस्य ग्रहस्य भरण्यादि संयोगदर्शनाद्ग्रहाणां पूर्वगतिरप्यस्ति' । तत्रापि कारणेन भाव्यमिति कारणानि कल्पयन्ति । तत्र यावनाः- ग्रहाणां सप्ताकाशास्तदुपरि भचक्राकाशस्तदुपर्यप्याकाशोऽस्ति । स च नाक्षत्र- घटीषष्ट्यो नियतपश्चिमगत्यैकवारं भ्रमति । तद्भ्रमणेनैव परवशाः । शन्यादिकक्षा- स्थानीयाः सजीवाः सावयवाः परस्पर संलग्ना आकाशाः पश्चिमाभिमुखं परिभ्रमन्ति । शन्याद्याकाशास्तु स्वशक्त्या पूर्वस्यां यान्ति । तत्र भचक्रादप्यूर्ध्वगस्याकाशस्य जवेन स्वशक्त्या पूर्वाभिमुखं गच्छत आघातेन तदन्तर्गतभचक्राकाशादयोऽपि पराशाभि- मुखं गच्छन्तीति भावः । प्रवाहप्रातिलोम्येन गच्छन्तोऽपि पुरुषाः नदीप्रवादिश्येव यान्ति तद्वदित्यर्थः । काचविमलर्माणवन्निर्मंले सचेतने सावयवे भूताद्यावेशवति स्वस्वा- काशोऽधिष्ठिता नक्षत्रग्रहा भूपृष्ठस्थैः सम्यगेव दृश्यन्ते । यथा रत्नघटमध्यस्थोऽपि दीपः प्रतिबन्धे दूरस्थैर्यथावस्थित एवावलोक्यते । खस्था गोलाकारा विशिष्टशक्तिमन्तो भूमिवन्निराधारा जीवविशेषा एवाकाशशब्देनोच्यन्ते । तैराकाशेरेव मण्यादिवत्स्वा- धिष्ठितो निर्गतिकोऽपि॰ ग्रह इतस्ततो नीयते । आकाशगतिरेव तत्स्थग्रहगतिरिति लोकैरुपचर्यते । कदलीपुष्पपुटवच्च तेषामाकाशानां संलग्नतेत्याहुः । एतान्याकाशानि मध्यकक्षास्थानीयानि । ईदृशमध्यकक्षापरिधौ अनवरतं मन्दनीचोच्च वृत्तमध्यो भ्रमति । परं मध्यगत्या मन्दनीचोच्चवृत्तपरिधौ चोच्चप्रदेशान्मन्दकेन्द्रगत्या ग्रहो भ्रमति रवि- श्चन्द्रश्च । भौमाद्यास्तु मन्दनीचोच्चवृत्तपरिधावप्यनवरतं भ्रमणशीलस्य शीघ्रनीचोच्च- वृत्तमध्यस्य मन्दस्पष्टगत्या गच्छतः परिधौ स्वस्वशीघ्र केन्द्रगत्या 'चलतुङ्गाद् भ्रमन्ति । तुङ्गप्रदेशो नाम भूगर्भावरतरप्रदेश: स्वस्वनीचोच्चवृत्ते | नीचोच्चवृत्तं नामान्त्यफलज्यया कृतं वृत्तम् । नीचोच्चवृत्तान्यपि गोलाकारा जीवविशेषा एवेत्याहुः । आर्यभट्टास्तु ग्रहाः पूर्वस्यां यान्ति । नक्षत्राणि तु स्थिराण्येव । भूरेव नाक्षत्र- दिनमध्ये पूर्वाभिमुखमेकवारं भ्रमति तेनैव नक्षत्र ग्रहाणामुदयास्तौ पूर्वपश्चिमयोर्घटतः । प्रवहानिलकल्पना व्यर्था । तथा च वृद्धार्यः । “अनुलोमगतिर्नौस्थः पश्यत्यचलं विलोमगं यद्वत् । १. रथस्ति गपु० । ३. तिर्गति ग० पु० । ५. मगतं क ख ग पु० । २. शताका ग० पु० ४. वलतुग पु० । ६. आ० भ० ४ पा० १० श्लो० ।