पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्तव्या, व्याकरणेऽस्मिन्बहवो ग्रन्थाः सन्ति पुराणा अपि
नव्याः अष्टाध्यायी पाणिनिरचिता तत्र नु वार्ता प्रष्टव्या)
इत्यादिरचनप्रतिज्ञां विद्धत् कुर्वञ्च्छास्त्रार्थे संलापमकरोत्।
अत एव भारतमार्तण्ड-शतावधानिप्रभृतिपदवीभूषितैः
श्रीगडलालैस्तथा तर्कवागीशाधुपाधिमद्भिस्तारानाथैरन्यैश्च
पण्डितवरैर्बहु परमं प्रशस्तः श्लाषितः॥४७॥
तत्पुत्रयोर्भगवतीतिपदादिलालो
ज्येष्ठोऽस्ति पण्डितवरः पितृलब्धविद्यः ।
तस्याऽनुजेन च सुशिष्यवरेण नित्या-
नन्दाभिधेन बुधपादसुकिंकरेण ॥४८॥
तत्पुत्रयोरिति ॥ तस्य पुत्रयोर्मध्ये भगवतीतिपदादिलालो
भगवतीलालः पितुर्लब्धा विद्या येन तथोक्तो ज्येष्ठोऽस्ति
तस्याऽनुजेन कनिष्ठेन प्रधानशिष्येण च बुधपादसुकिंकरेण
सच्चरणानुचरेण नित्यानन्दाऽभिधेन मयेत्युत्तरेणान्वयः४८॥
एष स्तवोऽरचि मयोत्सववैजयन्त्यां
संपूर्णवासरमहाधुरि वैजयन्त्याम् ।
लोकान् प्रमोदजलधावनुमज्जयन्त्यां
वर्षेत्रिषण्नवकुगे हनुमज्जयन्त्याम् ॥४९॥
एपइति।मयोत्सवेषुवैजयन्त्यां ध्वजरूपायांतथा संपूर्णानां
वासराणां दिनानां महाधुर्यऽव्यासने जयन्त्यां सर्वोत्कर्षण
युग्मम् ।