पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यत् क्या तव्यत्तव्यानीयर केलिमयेत्प्रत्यया दर्शिता
विज्ञेयाः॥४५॥
दाधीचवंश उदये ादियाय कास-
ल्योपाह्वयश्छिर इनो द्विजरामवक्षः। --
तस्यात्मजेषु किल पञ्चसु पूर्वजन्मा
श्रीमाधवोऽधरत धीरधुरंधरत्वम् ॥ ४६॥
इदानी कविः स्तोत्रमुपसंहरनिजवंशमपि वर्णयति-दाधी-
चेति ॥ छिरे छिरनामग्रामे उदये उदयादिरूपे दाधीचशे
कासल्योपाह्वय इनः सूर्यरूपो द्विजो रामवक्ष उदियायोदयते
स्म, तस्य पञ्चस्वात्मजेषु पुत्रेषु माधव-जयदेव-रामदया-
लु-घनश्याम-हरिनारायणनामसु पूर्वजन्मा ज्येष्ठो धीरेषु
धुरंधरत्वं धीरधुरीणत्वं अधरत धृतवान् ॥ ४६॥
एकात्मवृत्तरचने विदधत्प्रतिज्ञा
शास्त्रार्थसंलपनमाधित यः सभासु।
श्रीगठ्ठलालबुधतर्कगिरेशतारा-
नाथादिभिर्गुणिवरैश्च बहुप्रशस्तः॥४७॥
एकात्मेति ॥ यःसभासु विद्वद्रसभासु एकात्मनामेकप्रका-
राणां वृत्तानां छन्दसां रचनेशीघ्रतया निर्माण प्रतिज्ञा (अमु-
व्यासभायां ममैषा प्रतिज्ञा,भुजङ्गप्रयातैर्विना वाङ्न वाच्या)
अपिच (अस्मिन विद्वत्सदसि मया वाग्लावनिवृत्तैर्वक्तव्या
"इति प्रतिज्ञाय" कस्मिञ्च्छास्त्रे भवदीया गतिरस्ति प्रकटी-