पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कसां लंकानिवासिनां रक्षसांऋतं सत्यं अलपत्वम् अत्राणि
नेत्रनिःसृतान्यश्रूणि पिबन्ति तथोक्तत्वं (अलपत्वे रुधिरपा-
यित्वेऽस्रपत्वमथुपायित्वमत्रोत्प्रेक्षितम्) अश्रूणां बहुतया च
पानं संभवत्येव असाधयत् तथा स्व आत्मनि शिवोद्भवतां
कल्याणोत्पत्तित्वं (शिवोद्भवत्वे शङ्करांऽशजत्वे शिवोभव-
त्वं कल्याणोत्पत्तित्वमत्रोत्प्रेक्षितम्) ययाशिवोद्भवतयाऽऽ-
त्मसुहृदोऽङ्गदादयः क्षेमं शिवमापुः प्रापुः (अनेन सत्यार्थत्वं
व्यक्तम् ) सः (आञ्जनेयः) भद्रं कल्याणं करोतु
अनेन "दुहृदां रोदनानि भवन्तु सुहृदां च मोदनानि
भवन्तु" इत्यन्ते व्यक्तम् । पद्यान्ते च भद्रपदं कल्याणायो-
चितमेवेति शम् ॥४४॥
आद्याक्षरप्रकटितोत्तमरामरक्षा-
स्तोत्रीयपद्यमणिनाऽत्यऽमुना स्तवेन।
रक्षा भवत्युभयतस्त्विति गेय इत्योऽ-
ष्टव्यस्तथैष पठनीय उचेलिमोऽर्व्यः॥४५॥
आयेति॥आद्याक्षरैः प्रकटिता व्यक्ता उत्तमारामरक्षास्तो-
त्रीया बुधकौशिकरचितरामरक्षास्तोत्रसम्बन्धिनः पद्यमणयः
श्लोकरत्नानि यत्र तथोक्तेनाऽमुनाऽनेन स्तवेन मारुतिस्त-
वेनाऽति बहूभयतो रामकृता हनुमत्कृता चेत्यर्थः। रक्षा भव-
तीति कारणादेषस्तवो गेयो गातव्यः,इत्यो ज्ञातव्यः,अष्टव्यो
व्यापनीयः पठनीयोऽध्ययनीयः,उचेलिमः, कथनीयः तथा
ऽWः पूज्यः । अत्र कविना कृत्यप्रक्रियास्थाः क्रमेण सर्वे