सामग्री पर जाएँ

पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तष्टा वितयं शिखिनो घनगर्जित्तं यत् ।
कृतनाश्च नैजललनाललनाविलोलाः।
पाथोधिमाप्तवत आप्तविदेहजस्य
तु,ष्टिं हनूमत इवाऽऽतनितुंव्यनृत्यन॥३८॥
तुष्टाइति।निजललनानां स्वस्त्रीणां ललनायां रमणे विलो-
लास्तरलास्तुष्टाः प्रीताः कृत्स्नाः सर्वे शिखिनोमयूराः यद
(मारुतिगर्जितं) घनानां मेघानांगर्जितं विताऽऽप्तालब्धा
विदेहजा सीता येन तस्य तथा पाथोधि समुद्रमाप्तवतो
हनुमतस्तुष्टिं प्रीतिमातनितुं कर्तुमिव व्यनृत्यन्ननृतुः ॥ ३८॥
जंतुव्रजोऽपि वनजो हतभक्तसक्ताऽ-
घेहं हि यत्सपदि केसरिनन्दनस्य।
दक्षं निशम्य मनसाऽवहितेन चित्रं
शर्मप्रकर्षमतुलं लभते सलीलम् ॥३९॥
जन्त्विति ॥ वनजो वन्यो जन्तुव्रजोऽपि प्राणिगणोऽपि
केसरिनन्दनस्य हनुमतो हृता नाशिता भक्तसक्ता स्वभक्त-
लग्नाऽघेहा पापचेष्टा येन तथोक्तं यद् (गर्जितं) दक्षं
निपुणं यथास्यात्तथा सपदि अवहितेन सावधानेन मनसा
निशम्य श्रुत्वा सलीलमतुलमपरिमितंशर्मप्रकर्ष हर्षातिशयं
लभते । चित्रत्वं च वनजानां प्राणिनां केसरिनन्दनस्य
सिंहस्य सावधानत्वेन गर्जितश्रवणे ततश्च हर्षातिशयाप्ती
युक्तमेव ॥ ३९॥ शिग भग