सामग्री पर जाएँ

पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यितुं न शक्रोमि।नु इति प्रश्ने। अतः किं विरमामि । यहा।
नमामि प्रणतिमात्रं करोमीति भावः । त्रिभिरन्वये
तिलकम् ॥३६॥
एवं मुखगुणवर्णनेऽशक्ततां प्रदर्श्य तदन्तर्भूतं गर्जितं
चतुर्भिर्वर्णयति-
जातं यतो जनकजाऽधिगमोत्तरं चा-
नुध्वानि गर्जितमुर्जितमार्जवाढयम्।
नीत्वा स्वकर्णपथमन्धितटे भटेन्द्राः
सेहुर्न कर्णयितुमर्णवपूर्णगीर्णम् ॥३७॥
जातमिति ॥ जनकजायाः सीताया अधिगमादुपलब्धे-
रुत्तरं यतो यस्मात् ( कपींद्रमुखात् ) “इहत्यो यच्छब्द-
प्रयोगः कपीन्द्रमुखं तदव्यादित्यत्र स्थितेन तच्छब्दप्रयो-
गेण सम्बध्यते” जातमुर्जितमुत्कृष्टबलमाजवाढयमृजुत्व-
विशिष्टम् अनुध्वानि प्रतिशब्दि गर्जितं गर्जनमन्धितटे
समुदतीरे । भटेन्द्रा अंगदादयः स्वकर्णपथं नीत्वा श्रुत्वाऽ-
जेवस्य पूर्ण गीर्ण (जलसम्पर्क) शब्दं कर्णयितुं श्रोतुं न
सेहुन शेकुः । समुद्रजलपूरशब्दादपि तदधिकमासीदिति
भावः । चविडो ङित्करणाज्ज्ञापनादनुदात्तेत्त्वलक्षण-
स्याऽऽत्मनेपदस्याऽनित्यत्वादत्र सेहुरिति परस्मैपदे
प्रयोगः "भटौघः सेहे इत्यपि पाठः" ॥ ३७॥