पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दृश्यते इत्येवंरीत्यारत्या प्रीत्या ऋशमुखैः जाम्बवदादृक्ष-
मल्लप्रमुखैः संप्रथितस्तर्कितः स मुखेन्दुराननचन्द्रः सदा
घृत्कृतं घूदिति भयंकरशब्दकारकं निशाटगणं निशाचरस-
महमेजयतां कम्पयताम्।। अपि च चन्द्र ऋक्षमुखैरश्चिन्यादि-
मुखैः संप्रथितः स्तुतः शोभितः सन्वा घूतकृतं घूदिति
स्वाभाविकशब्दकारिणं निशाटगणं घूकसमूहमेजयते शो-
भयत्येव । द्वाभ्यां पद्याभ्यामन्वये युग्ममित्युच्यते॥३३॥
तथ्यं भवेदजलजो यदि पद्म उद्यद्-
मःसर्वदाऽपि चस तापनमण्डलेन।
पादोत्करेण न हि जात्वऽपितापितःस्यात्
तु,ल्यत्वमात्मनि तदैव लभेत येन ॥३४॥
तथ्यमिति ॥ यदि पद्मः कमलमजलजोऽजडजातः
'डलयारेक्यम् अपि च सर्वदाऽहर्निशं उद्यती उद्दीप्यमाना
माविकासरूपा शोभा यस्य तथोक्तो भवेत् स्यात्तथा तापन-
मण्डलन सूर्यबिंबसम्बन्धिना पीडकसमूहसम्बंधिना च
पादाकरेण किरणगणेन चरणगणेन च जात्वपि कदाऽपि
तापतो दुःखितश्च न स्यान भवेत्तदैव येन (हनुमन्मुखेन)
आत्मनि स्वे तुल्यत्वं सादृश्यं लभेत प्राप्नुयात् । अत्र
दृष्टान्तमुत्तरपद्येन दर्शयति ॥३४॥
रत्या युतः सुकविवत्सुनिबन्धदत्ताऽ
क्षः किं कथञ्चन हठात्तपदप्रयोक्ता।