पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रद्धेयमुत्पृथु दरस्फुटितं सुमं तद्
यः: सार्थकः करधृतः खलु मुद्रोऽस्ति२८
वन्येति ॥ अङ्गुलय एव शाखिकाः शाखा यत्र तथाऽऽ
सक्तं पाणावेव दले पल्लवे कङ्कणं करभूषणं कंकणिका
जलकणिका च यत्र तथोक्ता वन्यानां वनौकसामीशितुरी-
श्वरस्य हनुमतो भुज एव लताऽव्यात तत्र (भुजलतायां)
यः खलु करधृतः सार्थको मुदो गरत्वेन सत्यार्थो मुद्गरोऽ
-स्ति तदरस्फुटितमीपविकसितमुत्पृथु अतिस्थूलं सुमं
पुष्पं श्रद्धेयं प्रत्येतव्यम् ॥२८॥
सष्ठु स्मराम्यऽपि च तौ सुकपिप्रवेष्टौ
ग्रीवासुकम्बुमति नाभिजलभ्रमाढये।
वेलोत्कटे हनुमतोऽङ्ग्यदधौ च यौ साऽऽ
शः सत्कविः सुमनुते तटभित्तिबन्धौ ॥२९॥
सुष्विति॥ग्रीवैव सुकम्बुः सुशंखस्तद्वति नाभिरेव जलश्रम
आवर्तस्तेन युक्ते तथा वेलयोस्तीरयोर्वेलायामवसरे चोत्कट
हनुमतोऽङ्गिनि देह एवोदधौ समुद्धे यौ (भुजौ) सत्कार
सुकविः साशः सन्नाशायुतः संस्तटभित्तिबन्धौ तीरयोभिात
बन्धौ सुमनुते तर्कयति तो सुकपिप्रवेगौ हनुमद्धजो राष्टु
सुतरां स्मरामि ॥२९॥