पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न) इतः पक्षतः श्रीरामपक्षाद्वीरो हनुमान् दिष्टं दत्तमहिब-
न्धनं फणिपाशबंधनं येन तथोक्तमरित्रजं शत्रुगणमाशु
शीघ्रं बबन्ध । तथाविधस्य तथाविधरीत्यैव प्रतीकार
उचितः॥१६॥
स्कंदाभ ईशजतया च सशक्तितायां
धौरेयतां कपिबले दधदेवतां सः।
दिष्टया तु यस्य भवकूपनिमग्नजन्तून्
व्यामोहितानुपरि कर्षति पुच्छरज्जुः॥१७॥
स्कंदाभइति॥ईशजतया शिवांशजत्वेन तथा सशक्तिताय
बलवत्त्वे शक्तिधरत्वे च स्कन्दाभः कुमारतुल्यस्तथा
कपिबले वानरसैन्ये धौरेयतां धुर्यतां दधत् स ( हनुमान् )
एधतां वर्द्धताम।दिष्टयेति हर्षसूचकमव्ययम्।यस्य पुच्छ एव
रज्जुामोहितानज्ञानमूच्छितान् भव एव कूपस्तत्र निम-
माअन्तूनुपरि कर्षत्युद्धरति ॥ १७॥
युद्धे हि येन करटीव करेण वीरोऽ-
धः पातयन विटपिनो नहि विघ्नमाप ।
पापं लुनातु मलमल्लकिनः सुमल्ल-
तु,ल्यस्य लूमममलं मम लंबितं तत् ॥१८॥
युद्ध इति ॥ वीरो हनुमान् करटी करी करेण शुण्डयेव
येन (पुच्छेन ) युद्धे विटपिनस्तरूनधः पातयन्विघ्नं न-
ह्याऽऽप न लेभे ( हस्तादिभियुद्धे क्रियमाणे चेन्मध्ये तैरेव