पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भव्योऽभवत्तदनु यस्य हि वालहस्तो ।
रक्षोदयाऽनुगतियन्त्रितसूत्रशाली ॥ १५॥
कंदति ॥ कंदर्पदपैदलनं काममदनाशकं तथा गले
कण्ठे नन्दितोऽहिः सर्पो यस्य तथोक्तं ठं महेशं "ठो महे-
श्वर आख्यातः” इति कोशः। दध्युषो ध्यातवतः कर्हनुमतः
स्तिमितो निश्चलः स पुच्छोऽवतु ध्याने हि पुच्छस्य निश्चल-
त्वमुचितमेव । तदनु पुच्छसन्दीपनकाले यस्य(पुच्छस्य)
वालहस्तो वालधी रक्षोभी राक्षसैरदयाऽनुगत्याऽकृपासम्ब-
न्धेन यन्त्रितानि बद्धानि यानि सूत्राणि शणकर्पटादीनि तैः
शलति शोभते तत्तथोक्तो भव्यः प्रियदर्शनो (निश्चलतयेति
भावः) "पूर्वं कृतनिश्चलत्वाऽभ्यासस्य पश्चानिश्चलीभवनं
सुकरमेव” अभवत्। बवयोरैक्यादालहस्तश्च रक्षाया उदय-
स्याऽनुगत्यै यन्त्रितं यत्सूत्रं तद्धरति तथोक्तो भव्यो
भवत्येव ॥ १५॥
तन्यात्तमामतिमात विहितस्तुतीनां
वंद्यस्य तडनुमतो ललितं सुलूमम् ।
दिष्टाऽहिबन्धनमरिव्रजमाशु येने
तःप्रक्षतोऽपि फणिनेव बबन्ध वीरः ॥१६॥
तन्यादिति॥वन्यस्य हनुमतस्तल्ललितं सुलूमं सुपुच्छ
विहिता कृता स्तुतिर्येस्तथोक्तानां भक्तानामतिबहुमात
बुद्धिं तन्यात्तमां तनोतुतराम्।फणिनेव सणव येन (पुच्छ