पृष्ठम्:ShriMarutiStava1907VenkateshwarPress.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गम्यां पदवी सरणिं दर्शयितुमिव यदीया पदरुक् चरणका-
न्तिर्योज्येव दासीव पुरतोऽग्रे याति, स हनुमान् पातु ॥५॥
दृष्ट्वा यदीयपदपङ्कजमेकवारं
शौटीर्यवीर्यसहितं जलराशिलंघे ।
पापात् प्रमुच्यत इहैव नरश्च पूज्योऽ
त.ल्यो भवत्यऽवतु सोऽनिलनन्दनो नः॥६॥
दृष्ट्येति ॥ जलराशिलंघे समुद्रलंघने शौटीर्यवीर्यसहित-
मुद्भटत्वबलविशिष्टं यदीयं पदपंकजमेकवारं सकृदपि दृष्ट्वा
नरोऽत्रैव लोके पापात् प्रमुच्यते तथा पूज्योऽतुल्योऽनु-
पमश्च भवति सोऽनिलनन्दनो मारुतिर्नोऽस्मानवतु
रक्षतु ॥६॥
वित्यज्य याति जनकस्य गृहं हि जाता
श्वासारतां सुदधती स्वविवृद्धिकाले।
मिथ्यात्वहीनमिति निर्दिशतीव यदाऽ
त्रस्थेनवेश्म भजते भज ते पदे हृत् ॥ ७॥
वित्यज्येति ॥जातोत्पन्ना (पुत्री ) स्ववर्द्धनकाले जनक-
स्योत्पादकस्य ( पितुः ) गृहं वित्यज्य विहाय श्वासाऽऽरतां
श्वासागमत्वं श्वासस्याऽरत्वं शीघ्रतां वा सुदधतीधरन्ती याति
गच्छति "इनवेश्म पतिगृहम्" इत्युत्तरनत्यमिहाऽपि यो-
जनीयम् । पतिगृहं गच्छतीत्यर्थः (कान्तिमुद्दिश्य तु 'आश