पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमं मण्डलम् सू. ८३, मंs ] चेङ्कट० महान्तम् मेघम् उत् सिन उत्तिक्तम् उदकं च पृथिव्यां नि सिच। स्यन्दन्ताम् कुल्याः विमुक्ताः पुरस्तात् | उदफेन द्यावापृथिवी विविधं छेदय। सुप्रपाणम् भवतु गोभ्यः ॥ f मुद्गल० हे पर्जन्य! त्यम् महान्तम् प्रवृद्धम् कोशम् कोशस्थानीय मेघम् उत् अच उद्रच्छ नि सिञ्च नीचैः क्षारय | कुल्याः नद्यः विषिताः विष्यूताः सत्यः स्यन्दन्ताम् महन्तु पुरस्तात् पूर्वाभि मुखम् । प्रायेण नद्यः माच्यः स्यन्दन्ते । प्रतेन उदकेन द्यावापृथिवी दिरं च पृथिवीं च विसन्धि छेद | अभ्याभ्यः गोम्पः सुप्रमाणम् सुमपातव्यम् उदकम् भवतु ॥ ८ ॥ यत् ष॑ज॑न्य॒ कनि॑क्रदत् स्त॒न॑य॒न् ह॑ति॑ि दु॒ष्कृतैः । प्रती॒दं विश्वं॑ मोते॒ यत् किं च॑ पृथि॒व्यामधं ॥ ९ ॥ यत् । प॒र्ज॑न्य॒ । कनि॑क्रदत् । स्त॒नय॑न् । हंसि॑ । दुःऽकृत॑ः । प्रति॑ । इ॒दम् । विश्व॑म् । द॒ते । यत् । किम् । षु । पृथि॒व्याम् | अधैि ॥ ९ ॥ बेङ्कट० यदा हे पय शब्द बैतनमन्वहंसि रक्षांसि, अमोदते तदा पुनत् विश्वम् यत् किम् चित् पृथिव्याम् अधि नसति ॥ ९ ॥ मुगल हे पर्जन्य | यत् यदा त्वम् कनिकरत् त्वये शब्दयन् स्तनयन् दुष्कृतः पापकृतो मेघान् हंसि विदारयसि तदानीम् इदम् विश्वम् जगत् प्रति मोदते । यत् किम् च पृथिव्याम् श्रवि भूम्याम् अधिष्ठितं यत् चराचरात्मकं तद् इदं विश्वं मोदते हृष्यति ॥ ९ ॥ अपूगृ॑भायाक॒र्धन्वा॒न्यत्ये॑स॒वा उ॑ । अर्जीजन॒ ओष॑ध॒र्भोज॑नाय॒ कमु॒त प्र॒जाग्यौऽविदो मनी॒पाम् ॥ १० ॥ अ॒र्य॑षः॑ः । व॒र्षम् | उत् । ऊ॒ इति॑ । सु | गृ॒भा॒ाय॒ । अवः॑ ॥ धन्वा॑नि । अति॑र॒त॒वै । ऊ॒इति॑ । अर्जीजनः । ओष॑धीः | भोज॑नाप । कम् । उ॒त । प्र॒ऽजाम्य॑ः । अ॒धः | मनीषाम् ॥ १० ॥ 1 वेङ्कट अवर्षी, वर्षम् सुष्ठ गृहीतवानसि तथा विरुदकानपि देशान् करोषि अतीरय गन्तुम् । तथा ओषधीः च भोजनाय अजीजनः । उत प्रजाभ्यः प्रशान् मलम्भयः ॥ १० ॥ मुगल० इयम् अतिवृष्टिविमोधनी हे पजेभ्यः ! त्वम् अवः वृष्टवानसि । वर्षम् उदद सु गृभाय उत् उत्कृष्टम् सु सुदु शुभाय गृहाण परिहरेत्यर्थः | धन्वानि निकप्रदेशान् अकः अलवतः सवानसि । किमर्थम् । अत्येतवे उ अतिक्रम्य गन्तुम् झोपयोः अजीजनः उद्पादयः । किमर्थन् । भोजनाय मोगाय कम् धूरणः | व अपि च प्रजाभ्यः सकाशात मनीषाम् स्तुतिम् अविदः प्राप्तवानसि ॥ हुवि चतुर्थाष्टकं चतुर्थाध्यमेष्टाविंशो बर्गः ॥ १. रवन्दते फो. २. यो. 1.३. नविध विरूपं. ४. भूको ५० भन्तरोपहिये.