पृष्ठम्:Rekha Ganita.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ यथा अबजत्रिभुजे अबभुजः अजभुजान्महानस्ति । तस्मारकाणः बकोणादधिको भविष्यति । कुतः । भी यदि अबभुजे अजतुल्यं अदं पृथक् क्रियते जदेखा च क्रियते तदा अदज कोणअजदकोणौ समानौ भवतः। अ- अ दजकोणस्तु अबजकोणान्महानस्ति । अजदकोणोऽपि महानस्ति । पुनः अजबकोणोऽपि अजदकोणादधिकोऽस्ति । तस्मात् अजबकोणः अबजकोणादतिमहान् जातः । तदेवमुपपन्नम् । पुनः प्रकारान्तरम्। अजरेखा दपर्यन्तं नेया । अबतुल्यं अदं च कार्यम् । दबरेखा । च कार्या। तत्र अबदकोण अदबकोणौ समानौ स्तः। अबदकोणस्तु अबजको ज, णान्महानस्ति । अदबकोणोऽपि अब- ॐ जकोणान्महानस्ति । पुनः अजबकोणः अदबकोणादधिकोऽस्ति । तस्मात् अ- अं जबकोणः अब्जकोणादतीव महान् जातः । तदेवमुपपन्नं यैथोक्तम् । पुनः प्रकारांन्तरम् अं केन्द्रं कृत्वा अबव्यासार्धेन बदबूलं कार्यम् । बजरेसा वृत्तलमा दपर्यन्तं नेया । अदरेखा च कार्या । अबदत्रिभुजे बकोण दकोणौ समानौ स्तः। अजबकीणश्च अदबकोणादधिकः। अबदकोणादप्य धिकोभविष्यति । इदमेवेष्टमस्माकम् ॥

१ ‘रेण D. K. २ D. omits it. ३ न्तरेण D. ४ अजबकोणो महानस्ति अद्वकोणात् अबद्कोणादप्यधिकः K. D.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/८७&oldid=150644" इत्यस्माद् प्रतिप्राप्तम्