पृष्ठम्:Rekha Ganita.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ रेखागणितं प्रारभ्यते । तेत्रास्मिन् अन्ये पञ्चदशाध्याया अष्टसप्तत्युत्तरचतुःशतं क्षेत्राणि सन्ति । तत्र प्रथमाध्यायेऽष्टचत्वारिंशत् क्षेत्राणि प्रदर्श्यन्ते । तत्र आदी परिभाषा। यः पदार्थों दर्शनयोग्यो विभागानहः स बिन्दुशब्दवाच्यः । यः पदार्थो दीर्थो विस्ताररहितो विभागार्हः स रेखाशब्दवाच्यः । बैच विस्तारदैर्ध्याम्यां भिद्यते तद् धरातलक्षेत्रसंज्ञं भवति । अब रेखापि द्विविधा । एका सरला अन्या वका । अथ सरलरेखालक्षणम् । यखां न्यस्ता बिन्दवोऽवलोकिताः सन्त एकविन्दुनाच्छादिता इव दृश्यन्ते सा सरला रेखा ज्ञेयान्यथा कुटिला । अथ धरातलक्षेत्रमपि दिविधम् । एकं बलवत् समं द्वितीयं विषमम् । तद्यथा । विन्दून् लिखित्वा सूत्रं निःसारयेत् तद्यदि सर्वत्र सलमं स्यात्तदा तद् धरातलं समं वमन्यथा विषमम् । अथ कोणलक्षणम् । घरातले रेखाद्वययोगात् सेच्युत्पद्यते सैव कोणः । स च द्विविधः समो विषमश्च । तौ यथा। समानरेखायां लम्बयोगा- दुत्पन्नौ कोणौ प्रत्येक समकोणौ भवतः रेखेच मिथो लम्बरूपे स्तः। १भयोलीदवास्यं रेखागणितं लिख्यते। D. २ अथ प्रन्थे D. ३शकलानि D. K. ४ विन्दुर्वाच्यः D. A. K. ५ विस्तारदैर्घ्ययोर्यद्भियते तदरातलं तदेव TAID. K. & K. has to in the beginning and omits na before घरातलं. ७ लमं भवति D. ८ धरातल A. B. ९ या सूच्युत्पद्यते स-कोषः। K. D.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/६६&oldid=245008" इत्यस्माद् प्रतिप्राप्तम्