पृष्ठम्:Rekha Ganita.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्रीगणेशाय नमः ।
श्रीलक्ष्मीनृसिंहाय नमः ॥

गणाधिपं सुरार्चितं समस्तकामदं नृणाम् ।

प्रशस्तभूतिभूषितं स्मरामि विघ्नवारणम् ॥ १ ॥ ।

लक्ष्मीनृसिंहचरणाम्बुरुहं सुरेशैर्वन्द्यं समस्तजनसेवितरेणुगन्धम् ।

वाग्देवतां निखिलमोहतमोपहन्न वन्दे गुरुं गणितशास्त्रविशारदं च ॥ २ ॥

श्रीगोविन्दसमाहूयादिविबुधान् वृन्दाटवीनिर्गतान्

यस्तत्रैव निराकुलं शुचिमनोभावः स्वभंक्त्यानयत् ।

म्लेच्छान् मनसमुन्नतान् स्वतरसा निर्जित्य भूमण्डले

जीयाच्छीजयसिंहदेवनृपतिः श्रीराजराजेश्वरः ॥ ३ ॥

करं जनार्दनं नाम दूरीकृत्य स्वतेजसा ।

आजते दुःसहोऽरीणां यथा भैष्मो दिवाकरः ॥ ४ ॥

येनेष्टं वाजपेयाचैर्महादानानि षोडश ।

दत्तानि द्विजवर्येभ्यो गोग्रामगजवाजिनः ॥ १ ॥

तस्य श्रीजयसिंहस्य तुझे रचयति स्फुटम् ।

द्विजः सम्राट् जगन्नाथो रेखागणितमुत्तमम् ॥ ६ ॥


१ A. begins the work as follows:-ओं श्रीगणेशाय नमः । अथो

क्ीदाख्यं रेखागणितं लिख्यते । तत्रास्मिन् प्रन्थे &c. K. begins it

thnsc–श्रीगणेशाय नमः । श्रीशारदायै नमः । श्रीगुरवे नमः । ओं सिद्धिः।

गजाननं गणाधिपं सुरासुरार्चितं सदा । समस्तभफकामदं शिवासुतं सुखप्रदम् ॥

वितण्डवष्ठयोगिनीसमाजमध्यवर्तिनम् । समस्तभूतिभूषितं नमामि विन्नवारणम् ॥

लक्ष्मीनृसिंह &c.

२ शक्त्या ३ दर्प K.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/६४&oldid=125878" इत्यस्माद् प्रतिप्राप्तम्