पृष्ठम्:Prabandhaprakasha.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

,
सुप्रसिद्ध श्री० पं० ईश्वरी इत्तदार्गादत्ति शास्त्रि, एम० ए० एम०प्र०
( Superintendent, Sanskrit Studies,
Bihar and Orissa ) महोदयैः कृतं
एल०,
प्रबन्धप्रकाशशुभाशंसनम्
विद्याभिरनवद्याभिर्विविधाभिर्विभूषितैः ।
कविताकान्तकान्तार केलिलालसमानमैः ॥ १ ॥
प्रज्ञाऽऽकरै: परद्रोहदिवाभीतदिवाकरैः ।
श्रीमन्मङ्गलदेवाख्य-शास्त्रिभी रचितः शुभः ॥ २ ॥
सहजैरपि सश्रीकः सरसैः सरलैरपि ।
मितैर्मतैश्च महितः शब्दै संस्कारशालिभिः ॥ ३ ॥
पदे पदे प्रशंसारम्पृष्टः पुनरुक्तिभिः |
युक्त्या समर्थितैर: प्रापितः स्पृहणीयताम् ॥ ४ ॥
सुभाषितैश्च सुरभिर्भव्यैर्भावविभूषितैः ।
रीत्या रञ्जनमञ्जर्या मञ्जुतां काचिदश्चितः ॥ ५ ॥
विद्यार्थिचातकवात नील नूतननीरदः ।
..
अध्यापकपिकानां चाऽनन्तो वासन्त उत्सवः ||
विद्वद्वन्द मिलिन्दानामरविन्दवनं नवम् ।
दिव्यवाङ्मयसङ्कोचभुजङ्गमभुजङ्गभुक् ॥ ७ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/४&oldid=355300" इत्यस्माद् प्रतिप्राप्तम्