एतत् पृष्ठम् परिष्कृतम् अस्ति
१५१
तृतीयोऽङ्कः ।
अपि च। दु[५]राराध्या हि राजलक्ष्मीरात्मवद्भिरपि राजभिः। कुतः।
परार्थानुष्ठान इति । परार्थानुष्ठाने धर्मतः षष्ठांशदानादिप्रकृतिकार्य- परतन्त्रत्वे स्वार्थपरता स्वच्छन्दविहारादिविषयभोगः नृपं रहयति त्यजति। परित्यक्तस्वार्थःराजा नियतमयथार्थः क्षितिपतिः ईदृशस्य राजत्वम- यथार्थं निष्फलं स्वसुखोपभोगाभावादित्यर्थः । अथापि राजधर्मतया स्वार्थं विहाय प्रजार्थ एवानुष्ठेय इति चेदाग्रहस्तदा राजा पराधीनो जातः । पराधीनस्य भृत्यादेः सौख्यलेशः कुत्रापि नास्तीति लोकानुभव- सिद्धमिति भावः ॥ ४ ॥
आत्मवद्भिरिति । समाहितचित्तैरित्यर्थः ।
तीक्ष्णादिति । मृदौ परिभवत्रासान्मृदौ स्थितां मामन्यो बलवान्परभविष्यतीति तत्र सम्यङ् तिष्ठति । ‘समवप्रविभ्यः स्थः’ इति तङ्। लब्धप्रसरा कामुकवशीकरणेन लब्धप्रागल्भ्या वेशवनितेव श्रीर्दुराराध्येत्यर्थः ॥ ५ ॥