एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
द्वितीयोऽङ्कः।
कञ्चुकी-(उ[१]पविश्य ।) कुमारो मलयकेतुरमात्यं विज्ञापयति ।
चिरात्प्रभृ[२]त्यार्यः परित्यक्तोचितसंस्कार इति पीड्यते मे हृदयम् ।
यद्यपि सहसा[३] स्वामिगुणाः न शक्यन्ते विस्मर्तुं तथापि मद्वि[४]ज्ञापनां
मानयितुमर्हत्यार्यः । ( इत्याभरणानि प्रदर्श्य ।) इमान्याभरणानि
कुमारेण स्वशरीरादवतार्य प्रेषि[५]तानि धारयितुमर्हत्यमात्यः।
राक्षसः-आर्य जाजले, विज्ञाप्यता[६]मस्मद्वचनात्कुमारः । विस्मृता एव भवद्गणपक्षपातेन [७]स्वामिगुणाः। किंतु ।
नोपेक्षे इति भावः । ‘उपचीयमानमपि’ इति पाठे उपचीयमानं जेतुं यतते जयाय न शक्नोतीति व्यवहितान्वयः क्लिष्टः । अनेन कञ्चुकिनिर्वेदेन राक्षसोद्यमस्य चाणक्यनीत्या भावी उपमर्दः सूचितः ॥ ९ ॥
सुगाङ्गेति। सुगाङ्गनामकप्रासादे परपरिभवकर्तृकाक्रान्तिराक्रमणं तेन कृपणैर्दीनैरित्यर्थः । इदमिति बुद्धिस्थपरामर्शः ॥ १० ॥
- ↑ G. E. B. add नाट्येन before this and अमात्य after ; कुमारो om. in G.
- ↑ आर्यः om.in G;B.E.G. add शरीर after उचित.
- ↑ B. E. G. have सहसा after° गुणाः. H. omits सहसा.
- ↑ मम वि° E; G. om. मानयितुम् which follows. B. has दर्शयित्वा. for प्रदर्श्य; G. has इत्याभरणं दर्शयति. E.agrees reading दर्शयित्वा. B.and E. add अमात्य after this.
- ↑ G.has इदमा°..°णंशरी°..र्यकुमारेणप्रेपेपितंधार; E. इ---- णं कु...तार्यार्याय प्रेपितंधार°; B. E. N. G.read आर्यः for अमात्यः.
- ↑ B. has मत् for अस्मत्.
- ↑ E. G. have मे for एव and E. has °पातिना for °पातेन; B. reads विस्मृता मया स्वामिगुणास्तव गुणपक्षपतिना.
- ↑ E. has °भवक्रान्त; R. °भवाक्रान्तः.
- ↑ क्षयित° B. N.