पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिप्रायमयूखः
९५
अपरिचितमपि ऋषि (आर्य) मतमेवावललंबिरे । भारतवर्षे ब्राह्म-
णानां वैभवस्य आदिमेष्टकान्यासः एवं विरचितः । ब्राह्मणोक्तरीत्या
राजन्यो न यष्टुमीष्टे । यदि वा राजन्यो यजेत तदा कथमपि ब्राह्मणो
भूत्वैव इज्यात् । यथा विश्वामित्रः ब्रह्मर्षिर्भूत्वा सञ्जयाख्यं चतूरात्रमप-
श्यत् । राज्यंचाविन्दत (पञ्चविंशब्राह्मणे XXI – 12, 2) | देवापिरार्ष्टि-
षेणः कुरुकुलप्रसूतः तपसा ब्राह्मणत्वं संपाद्य (महाभारते IX-39, 35 )
भ्रातुः शन्तनोरार्त्विज्यमकरोत् (ऋग्वेदे X - 98 ) । परन्तु विश्वामित्रा-
दीनां क्षत्रियकुलोत्पन्नत्वे मूलभूते ऋग्वेदे नास्ति प्रमाणाम् । एता-
दृशकथा: क्षत्रियानार्त्विज्यादिकरणान्निवारयितु मुपकल्पिता अर्वाची-
नैरिति भाति ॥
3. पुरुषमेधः,
आदौ सिन्धुनदप्रान्तियाः राजानः स्वमतं पौरोहित्याधीकारं च
किं निमित्तं विदुधुविरेः किमर्थं परधर्ममङ्गयकुर्वन् ? तेषां मनसि निज-
देवतापेक्षाया ऋषिदेवताः बलीयस्य इति, निजकर्मापेक्षया ऋषि-
दृष्टं कर्म फलसंपादने पटीय इति च प्रत्ययेन जातेन भवितव्यम् ।
लोके परधर्माश्रयणं च प्रायेण विलप्तमहिम्नयामेव जनतायां संदृश्यते ।
प्रायस्तदानीं देशीयप्रजाः प्रभवश्च स्वधर्मे विश्लथश्रद्धा बभूवुः ॥
-
पूर्वोक्त आर्यक्षत्रियवर्णभेद: उभयोर्मनोभूमिकाभेदमूलक एव ।
उभयोर्मनोभूमिकाऽभिद्यत इत्यत्र किङ्गमकम् । उच्यते – केच-
नाचाराः ब्राह्मणानां इतरेषांच अधर्मा इति प्रत्यादिष्ट अपि
क्षत्रियैर्धर्मत्वेन समाद्रियन्त । यथा पुरुषमेधः । वैदिकपुरुषमेधे षशु-
स्थानीयः पुरुषो न हन्यते । तत्परितः अभिनयते । अनन्तरं पशु-
र्मुच्यते । अन्यः अवैदिकोऽपि पुरुषमेधो विद्यते । अश्वमेधवदेषः ।
अस्मिन् पुरुषः निहन्यते । पुरुषमारणानन्तरं महिषी शवपार्श्वे स्वपेत् ।