श्रीमन्महाराजसंस्कृत महापाठशालापत्रिका
निवेशितः, दान्तिकः मदुक्तिश्चेदन्तरिति' वाक्यार्थः उत्तरा
कथितः । इत्थं प्रसङ्गसङ्गत्या विद्वज्जनमात्रग्राह्यत्वेन धन्यतां उत्तर-
श्लोकद्वयेन प्रकटय्य अन्ते स्वमाहात्म्यं -
९२
.
'ताम्बूलद्वयमासनं च लभते यः कान्यकुब्जेश्वरा-
द्यः साक्षात्कुरुते समाधिषु परं ब्रह्म प्रमोदार्णवम् ।
यत्काव्यं मधुवर्षि घर्षितपरास्तर्केषु यस्योक्तयः
श्री श्रीहर्षकवेः कृतिः कृतिमुदे तस्याभ्युदीवादियम् || '
इत्यनेन प्रफुल्लयामास । दीक्षितास्तु कविसम्प्रदायानुरोधात् दान्तिकं
पूर्व, दृष्टान्तवाक्यार्थं पाश्चात्यं प्रदर्शयामासुः | कुवलयानन्देऽस्मिन् नैष-
धीयत्वेन प्रत्यभिज्ञातुमशक्या: बहवः श्लोकाः ||
'विवस्वता नायिषतेव मिश्रा: '
(नै. २२ स, ३५ श्लो.)
6
अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः सङ्ख्यया '
(नै. १२ स, १०३ श्लो. )
'बलात्कुरुत पापानि '
(नै. १७ स, ४९ श्लो. )
एवमादयस्तत्र तत्र प्रकरणे समुपलभ्यन्ते । अधिकं परस्तात् ||
क. गोपालकृष्णशास्त्री.
पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/५१
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति