पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका
महर्षिणा कृतं धर्मलक्षणम् । एतच्च लक्षणं उत्तरोत्तरोत्कर्षवादिनां
पाश्चात्यविदुषामिष्टमेव । तेऽपि सर्वजनाभ्युपगतानां लोडन्तादिपद-
बोध्यानां क्रियाणां धर्मत्वं बोधयन्ति । तादृशक्रियां " विश्वजनी-
नाज्ञा " (Social Command) इति ते वदन्ति ।
66
चोदिताः कियाः प्रवृत्तिधर्मा इति भरतखण्डविद्वद्भिर-
भिधीयन्ते । प्रवृत्तिधर्म इव निवृत्तिवर्मोऽप्यपरः मुख्यधर्मः जाग-
ति भरतखण्डजनानां मतम् । निवृत्तिधर्मः पाश्चात्यविदुषाम-
विदितपूर्वः । विदितोऽपि स न तेभ्यो रोचते ||
कर्मसन्यासः कर्मफलसन्यासो वा निवृत्तिधर्म इत्यभिधीयते ।
यः सर्वाणि विहितानि निषिद्धानि च कर्माणि सन्नयस्य नैष्कर्म्यसिद्धौ
यतमानः ब्रह्मणि रमते तस्य धर्मः कर्मसन्नयासात्मकः निश्श्रे-
यसप्रदः इत्येतेषां मतम् ।
66
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । "
इति भगवद्गीतावचनेन सर्वकर्मसन्नयासः न सुकर इत्यपरे कर्म-
त्यागात्कर्मजन्य फलत्यागः वरमिति मत्वा विहितानि कर्माणि अनुतिष्ठ-
न्तोऽनुष्ठीयमानकर्मणां फलानि भगवते समर्पयन्ति । भगवत्समर्पण-
द्वारा जनेभ्य एव ददति । प्रयासेनार्जितप्राज्यधनः जनः देवानिष्ट्वा
धनव्ययं वा करोति, दानरूपेण वा जनेभ्यो धनं ददाति, देवा-
लयादीनि वा धर्मकार्याणि कारयिष्यति । न तु आर्जनाद्विरमति ।
किं तु स्वार्जितं स्वभोगाय न विनियुङ्क्ते । तथा च कर्मफल-
सन्नयासः लोकसुखाय प्रभवतीति स्पष्टम् ||
पाश्चात्यास्तु प्रवृत्तिधर्ममेकमेवानी कुर्वाणाः कर्मसन्नचासकर्मफल-
सन्नयासान्यतरात्मकं निवृत्तिधर्मं नाभ्युपगच्छन्ति । ऐहिकानिष्टनि-
वृत्तिपूर्वकाभीष्टप्राप्तिरेव प्रवर्तिकेति मन्यमानाः सैकतादपि तैलं