पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८
श्रीमन्महाराजसंस्कृतमहापाठशालापात्रका
इति । एवं वासिष्ठलैङ्गेऽपि
-
“ अथातो
66
मन्नियोगाद्धरिस्साक्षादतीवश्रद्धया सह ।
कृष्णद्वैपायनो भूत्वा ब्रह्मचारी जितेन्द्रियः ॥
वेदान्तानां प्रतिष्ठार्थं मुने सूत्रं करिष्यति ॥
इति । सूत्रजालस्य चास्य मुख्यप्रमेयचोधकशब्दघटितप्रथमसूत्रकत्वात्
तादृशधर्मसूत्रयोगसूत्रयोः धर्मसूत्रत्वयोगसूत्रत्वरूपासाधारण व्यवहारवत्
ब्रह्मसूत्रत्वव्यवहारः सर्वजनसम्मतः । यो हि महर्षिः यदर्थं यं प्रबन्धं
कृतवान् सः तमर्थं तदादौ प्रथमत एव प्रायेण असूचयत् । यथा
अथ योगानुथासनम् " अथ शब्दानुशासनम् "
धर्मजिज्ञासा " इति । तथा बादरायणोऽपि महर्षिः अथातो
ब्रह्मजिज्ञासे” त्येवोवाच । न तु शिवजिज्ञासा, विष्णुजिज्ञासेति वा,
अतोऽवगम्यते, शैववैष्णववल्लभादीनां स्वस्वमताभिनिवेशात् अन्यथा
अन्यथा अर्थप्रतिपादने नावकाश इति । अस्यां चतुर्लक्षण्यामादावन्ते
मध्ये वा शिव विष्णुवाचकपदाभावत् ब्रह्मात्मपरादिशब्दानामेव तत्र
तत्र उपलम्भाच्च, ब्रह्मविचारात्मकमेवेदं सूत्रजालामति च । तत्र प्रथम-
सूत्रे ब्रह्मशब्दस्य बृहिवृद्धाविति घातोर्निष्पन्नत्वेन, अथ कस्मा-
दुच्यते परं ब्रह्मेति? यस्मादुच्चार्यमाण एव बृहति, बृह्मयति,
तस्मादुच्यते परं ब्रह्मेति” इत्यथर्वशिरश्श्रुत्या च बृहत्त्वम् ब्रह्मपद-
प्रवृत्तिनिमित्तमिति गम्यते । तच्च संकोचेप्रमाणाभावात् त्रिविघपरिच्छेद-
राहित्यप्रयोजकं निरतिशयञ्च, तद्वा एतद्ब्रह्म अद्वयं बृहत्वादि"ति-
नृसिंहोत्तरतापनयिश्रुत्या, " सत्यं ज्ञानमनन्तमितिश्रुतौ यदनन्तं
तद्ब्रह्मेत्युक्तत्वेन च, तथावगमात् । एवं –
66
,
66
“न व्यापित्वात् देशतोऽन्तो नित्यत्वात् नाऽपि कालतः ।
न वस्तुतोऽपि सार्वात्म्यात् आनन्त्यं ब्रह्मणि त्रिधा || "
-
66