पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुट्टाकाराशरोमणिः

६१
अत्र पूर्ववदागतानि प्रत्येकं रूपात्मकान्युपर्यधोभावेन निहितानि
फलानि १ । शेषयोरुपरिराशिर्लोचन (२) संख्यः । अघो राशिर्वेद


(४) संख्यः । अत्र मतिः कल्पयितुं न शक्यते तस्मादिह भाज्य-
राशि: खिल इति वक्तव्यम् । यत्र च्छेदयोरपवर्तकोऽस्ति सोऽग्रा-
न्तरस्य तु नास्ति । तत्र भाज्यराशेः खिलत्वं द्रष्टव्यं । यत्रैषां
त्रयाणामपि सदृशोऽपवर्तकोऽस्ति तदभावो वाऽत्राखिलत्वं द्रष्टव्यम् ।
एवं साग्रविषयेऽघिकाग्रादिसूत्रयुगं प्रतिपत्तृणां बुद्धिव्यामोहो माभूदि-
त्येकयैव च रीत्या व्याख्यातम् । अथैतदेवात्र किञ्चिद्विकल्प्य व्याक्रि-
यते । पूर्वं “शेषपरस्परभक्तं मतिगुणमग्रान्तरे क्षिप्तमि " त्यत्रफल -
पद्भ्यां समायां सत्यामप्रान्तरं समं कृत्वा मतिं कल्पयित्वा तथाऽ-
ल्पमुपरिराशिं गुणायित्वा तच्चाग्रान्तरे क्षिप्ता तदघोराशिना हृत्वा
लब्धं समपङ्कीनां फलानामघोनिहितायामतेरवस्तान्निदध्यादित्युक्तम् ।
इदानीं तत्र विषमायां फलपङ्क्यामग्रान्तरमृणं कृत्वा मतिं परिकल्प्य
तथाऽल्पमधोराशिं संगुण्य तस्मादग्रान्तरं विशोध्य तदुपरिराशिना
विभज्य लब्धं विषमपीनां फलानां मध्ये दत्ताया मतेरधः
स्थापयेदित्युच्यते । अन्यत्सर्वं पूर्ववत् । एवं कृतेऽपि पूर्वप्रदर्शित -
मखिलमुदाहरणजातं प्रायशः सेत्स्यत्येव । अस्मिन् पक्षेऽ“ ग्रान्तर”
इत्यन्तं विभक्तिविपरिणामो द्रष्टव्यः अग्रान्तरेणेति । छन्दोवत् सूत्राणि-
भवन्तीत्युक्तत्वात् । छन्दसि हि विभक्तिविपरिणामः प्रसिद्धः । क्षिप्त-
मित्येतदवहीनमित्यस्योपलक्षणम् । तस्मादग्रान्तरेणानमिति सिद्धं भवति ।
तथैवास्तु पाठः ||