पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका
शेष कक्ष्याग्रम् । इष्टदिनानां खकक्ष्या गुणाकारः; सहस्रगुणो ग्रह-
कक्ष्याभूदिनसंवर्गो भागहारः । एतावपवर्तिताविष्टदिनानां गुणहरौ
भवतः,
एतम्मिन्पक्षेऽपवर्तितयाकाशकक्ष्यया निहते स्वाभिमतदिनगणेऽप
वर्तकेन सहस्रनिहतग्रहकक्ष्याभूदिनाभ्यासेन विहृते लब्धं भगणादिग्रहः ।
शेषं कक्ष्याग्रम् । अथवा खकक्ष्याभूदिनयोरपवर्तितयोर्यत् खकक्ष्यातो
लब्धं तदिष्टदिनानां गुणः । यत्तु भूदिनतो लब्धं तेन सहस्रगुणितेन
गुणिता ग्रहकक्ष्या तेषां भागहारः । अस्मिन्पक्षे पुनरिष्टदिनगणेऽप
वर्तितया खकक्ष्यया गुणिते सहस्रगुणितेनापर्तितभूदिनेन गुणितया
ग्रहकक्ष्यया विभक्ते लब्धं भगणादिमध्यग्रहः शेषं कक्ष्याग्रम् । एवं
त्रिभिः प्रकारैः कक्ष्याग्रहानयनं कक्ष्याग्रं चोक्तम् । एष्वन्तिमप्रकारे
यत्कक्ष्याग्रं तदेवोद्दिश्यते । अस्य भागहारः सहस्रघ्नेनापवर्तितभूदिनेन
गुणिताग्रहकक्ष्या ||
५८
उद्देशक:-
1-
कक्ष्या ग्रं सवितुः सखाक्षिशिखरिक्ष्माक्ष्यद्रिचन्द्राक्कृति-
द्वयर्थाब्ध्यब्धिरसाभ्रतर्ककरभूसख्यं मृगाङ्कस्य तु ।
-
(१२६०६४४५२२२१७२१७२००)
लक्षाभ्रकरार्थबाण नवकद्वयष्टेशना गर्खगा-
द्र्यग्रं भाज्यमहर्गणं च भगणान् यातान् रवीन्द्वोर्वद ॥ २२
(७७३८११८२९५५२००००० )
न्यासः
– वेः कक्ष्याग्रमिदम् ।
(१२६०६४४५२२२१७२१७२००) इदमत्राधिकाग्रम् ।
अथ खकक्ष्याया भूदिनयो, “विभजेद्धारविभाज्याविति" परस्पर-
भक्तयोश्शेषं वेद ( ४ ) संख्यम् । एष खकक्ष्या – भूदिनयोरपवर्तकः ।
अनेनापवर्तिता खकक्ष्या प्रयुतघ्ननृपद्वयभ्राद्वखाष्टादिरसाब्धि (४६७८०-
·