पृष्ठम्:Laghu paniniyam vol2.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। स्वरपरिभाषाः ।
सतिशिष्टः स्वरो बलीयानन्यत्र विकरणेभ्यः ॥
-
यस्मिन् स्थिते सति यः शिष्यते (विधीयते) स सतिशिष्टः स्वरः,
तस्येतरापेक्षया बलीय त्वं बोध्यं विकरणस्वरं वर्जयित्वा । विकरणप्र-
त्ययो हि अन्यस्मिन् प्रत्यये परे विधीयते यथा- 'कर्तरि शप्' इति ।
तत्र कर्थक सार्वधातुकादनन्तरमुपस्थितोऽपि शप् तस्य (कत्रेयेक सार्वधा-
तुकस्य) स्वरं न बाधते । प्रक्रियामात्रप्रयोजनकस्य विकरणस्य प्रत्ययान्त
रसाधारण स्वातन्त्र्यं स्वरविषये नाद्रियत इति हृदयम् । उक्तरीत्या स्वर
उदाहरणेषु सञ्चार्यते-गुप् इत्युदात्तो धातुः । तस्मात् स्वार्थिक आय-
प्रत्यः । तस्य प्रत्ययत्वेनाद्युदात्तत्त्वे प्राप्ते 'सनाद्यन्ता धातवः' इति धातु-
स्वाद्धातुस्वरेणान्तोदात्तः -गोपाय इति यकार उदात्तः, शेषौ शेषनिधा-
तेनानुदात्तौ । तत'स्ति' इति लट्रप्रथमैकवचने कृते उदात्तेन यकारेण
सह 'अनुदात्तौ सुप्पितौ' इत्यनुदात्तस्य शपः एकादेशे कृते एकादेश
उदात्तेनोदात्तः' इति यकार उदात्त एवावतिष्ठते । तिबपि पिवेनानु-
दात्तः । तस्य असिद्धकाण्डगतेन 'उदातादनुदात्तस्य स्वरितः' इति
विधिना स्वरितश्रवणं भवति । स्वरितस्यासिद्धत्वाच्छेष निघातेन यकारस्यानु-
दात्तत्वं तु न । गोपायति इति यकार उदात्तः । ति स्वस्तिः, शेषो
गोपा इति भागोऽनुदात्तः । अथ तव्यप्रत्ययश्चेत् क्रियते, तस्य प्रत्ययादा-
त्तेन गोपायितव्य इति तकार उदात्तो भवति । तव्यत्प्रत्यये तित्त्वेन
व्यकारः स्वरितः स्यात् । अनीयरिं कृते रित्वेन मध्योदात्ते गोपायनीय
इति नीकार उदात्तः । सर्वत्र शेषाक्षराणां शेषनिघातेनानुदात्तः । अथ
कृदन्तेभ्य एभ्यः सुश्रुत्पत्ततॊ तत्प्रयुक्ता भेदाश्च यथासम्भवं स्युः । समास-
श्रेचतः क्रियतें तन्निबन्धनाथ |
लिपिषु स्वराणामङ्कने बहवः सन्ति सम्प्रदायाः । तत्र बहादृत
एकोऽत्र विवियते । - अनुदात्तस्य चिह्नपधस्तिरची रेखा, स्वरितस्योपर्यं-
ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्ययन्ते । अपितु
उदाचात् स्वरिताद्वा पूर्वमेवाक्षरम् । पूर्वानुदात्तचिह्नन माझुदाचे पदे क

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/५७&oldid=347296" इत्यस्माद् प्रतिप्राप्तम्