स्वरनिर्वचनम् ।
निहत इत्यनुदात्तपर्यायाः । प्रकरणेनानेन स्वराणां स्वरूपं, विनियोग-
प्रदेशः, श्रुतिप्रकर्षतारतम्यं च प्रतिपादितानि ।
अथ खरविषये परिभाषाः सामान्यनियमाश्च ।
(१८९३) अनुदात्तं पदमेकवर्जम् । ६ । १ । १५८ ।
3
पदेषु यस्योदात्तः खरितो वा विधीयते तमेकं अचं वर्जयित्वा
शेषा अचोऽनुदात्ताः स्युः । तथा चैकस्मिन् पदे एक एवाजुदात्तः खरितो
वा भवति । स्थानानुरोधेन आधुदात्तं, मध्योदात्तं, अन्तोदात्तमिति व्यव-
हारः प्रवर्तते । व्यत्यस्ततया अनेकोदात्तानि च पदानि सन्ति । तत्र
व्यस्तं पदं द्व्युदात्तमेव; समस्तेषु तु ज्युदात्तादिकमपि भवति । सर्वानुदा-
तानि च कतिचित् पढान्यनुशिष्टानि । अत्र तत्वपर्यालोचनायामुदात्त
एक एव खरः, अनुदात्तस्तत्प्रतिद्वन्द्वीत्येव । खरितस्तु किञ्चिदुदात्तरूष-
णादेव तृतीयस्वरत्वेन गणितः । कामपि श्रुतिमनवलंब्याक्षराण्युच्चारयितुं न
शक्यन्ते । तत्र तत्तत्कण्ठानुरोधेन यत्नविशेषं विना स्वयं प्रवर्तमाना
नैसर्गिकी श्रुतिरनुदात्ता । केषुचित् पदेषु कानिचिदक्षराणि परं किञ्चिदारू-
ढया श्रुत्या पठितव्यानि । तस्य उदात्तसंज्ञा । कुत्रचिद्विरळेषु पदेष्वा-
रूढा श्रुतिरक्षरस्य समग्रां कालकलां न व्याप्नोति, किन्तु अर्धमात्रायामुच्चा-
रितायामवरुह्य स्थायिनीं सामान्य श्रुतिमेवावगाहते । इयमवस्था स्वरित
इत्युच्यते । निवातनिष्पन्दस्य जलाशयस्य जलपूर इवैकश्रुतिः। वीचीत-
रङ्गणेषूर्ध्वगता कल्लोलकोटिरिवोदात्तः । कल्लोलयोर्मध्यगतमन्तरालमिवानु-
दात्तः । उन्नम्यावनमतस्तरङ्गस्य पार्श्वप्रपात इव स्वरितः । सामान्यमनु-
शेषौ विशेषरूपौ । तयोः पुनः श्रुत्यारोहतारतम्यनिबन्धनः परस्पर-
भेदः । उत् उर्ध्वं आत्त आरोपित उदात्तः । स्वरवान् कृतः स्वरितः |
स्वरशब्दात् “तत् करोती"ति णिजन्तान्निष्ठा । इति संज्ञानामर्थानुगतिः ।
एवञ्च, स्वरशब्द उदात्तमेवाचष्टे, तदंशग्रहणादनुदात्ताः केचित् स्वरिता
मवन्तीत्येव । स्वरितस्यैवं स्वतन्त्रस्वरत्वाभावादेव तद्विधिर्न कुत्राप्यारब्ध
आचार्येग । स्वरितो हि असिद्धकाण्डप्रारंभे 'उदात्तस्वस्तियोर्यणः स्वरि
दात्तः,
पृष्ठम्:Laghu paniniyam vol2.djvu/५५
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति