सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol2.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२
एकश्रुतिः ।
तासु कालवशात् श्रुतिनिबन्धनः स्वरो यत्ननिबन्धना काकुः संवृत्तः ;
संस्कृत तु निश्शेषं नष्ट एवेति प्रतिभाति ।
तु
+
'उच्चैरुदात्त: ' 'नीचैरनुदात्तः' 'समाहारः स्वरितः' इति संज्ञाप्रकरण
एव स्वरो लक्षितः । तत्र समाहाररूपे स्वरिते कियानंश उदात्तः, कियां-
श्वानुदात्त इति जिज्ञासायां सूत्रयत्याचार्य:-
-
(१८८४) तस्यादित उदात्तमर्द्धहस्वम् । १ । २ । ३२ ।
तस्य स्वरितस्यादौ ह्रस्वार्द्धमात्रातुल्यो भाग उदात्तः, शेषोऽनुदात्त
इति । तथा च ह्रस्वस्वरिते उदात्तानुदात्तयोः समांशास्यां मिश्रणं, दीर्घ-
स्वरिते ३३+ १३ अ इति योगः, ते ३३+२१३ अ इत्यायाति । एवञ्च
दीर्घलतयोर्भूयान् भागोऽनुदात्तो भवति । व्याख्यातारः पुनः सूत्रे ह्रस्व-
ग्रहणमतन्त्र प्रतिजानानाः सर्वत्र समांशयोगमिच्छन्ति । तदेतदवीचीनानां
प्रातिशाख्यकाराणां मतं स्यात् ।
स्वरान् निरुच्यानुपदमेव कुत्र ते नियोगतोऽनुष्ठेयाः, कुत्र ऐच्छिका
इति विचारयत्याचार्यः--
(१८८५) एकश्रुति दूरात संबुद्धौ | १ | २३३ ।
1दूरात् संम्बोधने प्रयुज्यमानं वाक्यमेकश्रुति स्थात्, स्वरविवेकं
विनोच्चार्यमित्यर्थः । तथा च यथा सन्ध्यभावरूपः प्रकृतिभावस्तथा त्रैस्व-
र्याभावरूपण एकश्रुतिः :
(१८८६) यज्ञकर्मण्यजपन्यूसामसु । १ । २ । २४ ।
जपो मन्त्राणामुपांशुप्रयोगः | न्यूङ्खा नाम षोडश ओकाराः ।
सामानि गीतयः । एतत्रयभिन्नेषु मन्त्र प्रयोगेषु यज्ञसम्बद्धेषु वाक्यमेकश्रुति
स्यात् । जपादित्रय एव मन्त्रास्त्रैस्वर्येणोच्चर्या इत्यर्थः ।
1
(१८८७) उच्चैस्तरां वा वषकारः | १ | १३OF
यज्ञकर्मणीति वर्तते । देवतासंप्रदाने प्रयुक्तः 'वषट्' 'वौषट्' इति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/५३&oldid=347292" इत्यस्माद् प्रतिप्राप्तम्