सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol2.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२
वैदिककाण्डः ।
(१७७८) अवपथासिच | ६ | १ | १२१ । यथा-
त्रि रुद्रेभ्यो अवपथाः ।
अनेन प्रकरणेन प्रश्लेषसन्धिर्लोके सार्वत्रिको यजुषि प्रायिक ऋक्सं-
हितायां विरळश्चासीदिति ज्ञायते । एतत्प्रदर्शनार्थमेवाव्यापकमपि सूत्र-
पञ्चकमत्रोपात्तम् ।
(१७७९) इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च । ६ । १ । १२० ।
असवर्णेऽचि परे पदान्ता इकः प्रकृत्या स्युस्तेषां दीर्घत्वे ह्रस्वश्च
इति शाकल्यस्य मतं निर्दिशत्याचार्यः । अस्योदाहरणानि लोके न दृष्टा-
नीति छन्दसीदं व्याख्यातमस्माभिः । यथा-
चक्री + अत्र = चक्रि अत्र, चक्रपत्र |
-
शाकल्याभिमतः प्रकृतिभावोऽयं 'इको यणचि' इति सन्धेः कृत्स्नं
विषयं व्याप्नोति । 'एचोऽपवायावः' इति सन्धौ च यवयोर्लोपमिच्छति
शाकल्यः । स एव लोपो रोर्यादेशस्य च भवति । प्रश्लेषसन्धिरकसंहि-
तायां विरल इति पूर्वमेव प्रतिपादितम् । एवञ्च अव्याकृते प्राचीन संस्कृते
व्यञ्जनयोरिव स्वरयोरपि संयोगः सुलभ आसीदिति स्फुटमनुमीयते ।
प्रातिशाख्येषु एचां सन्ध्यक्षरत्वकीर्तनं, तदानुगुण्येन 'आद् गुणः,' 'वृद्धि-
रेरोच’ इति एकादेशसन्धिविधिः, एकतः प्राकृतेषु अन्यतः लेतिन-ग्रीकाप्रभृ-
तिषु सगोत्रभाषान्तरेषु च स्वरयोयोगदर्शनं, चालनीपर्याये तितउशब्दे
सन्ध्यभावसद्भावश्चानुमानमिदं द्रढयति । ऋक्षु ' व्याप्तिः' 'स्वस्ति'
इत्यादौ 'वियाप्तिः' 'सुवस्ति' इति स्वरभक्तिप्रयोगो दृश्यते; पाणिनिश्च
पद्मध्ये 'अचि नुवातुभ्रुवाम् इति इयङवडी विद्धाति; पदा-
..........
,
न्तेऽपि आदिवृद्धिप्रयोगेन य्व्वायां पदान्ताभ्यां' इत्युक्तरीत्या
यणादेशस्थाने इयडुवङावेव फलतः; 'व्योलल्लघुप्रयत्नतरं' आह शाकटायनः;
इत्यादीनां अर्थानां स्वारस्ये पर्यालोच्यमाने अद्य संस्कृते सनिर्बन्धमनु-
ष्ठीयमानस्य भाषान्तरविलक्षणस्य सन्धिदाढ्यस्य प्रागवस्था प्रत्यक्षीभवति ।
प्रथमं–' स्त्री + एति =स्त्रिएति' इति इस्वसमुच्चितं शाकल्योक्तं प्रकृत्याव-
स्थानं; ततः 'स्त्रीयेति' इति शाकटायनीयलघुप्रयत्नतरमध्यमागमः; पश्चात

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/२३&oldid=347261" इत्यस्माद् प्रतिप्राप्तम्