सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol1.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८०
[सुबन्त
लघुपाणिनीये

विश्वो यस्य स प्रियविश्व इति बहुव्रीहे: प्रियविश्वाय इत्येव रूपं न तु प्रियविश्वस्मै इति सर्वनामकार्यम् ||

१७३

तृतीयासमासे च सर्वनामता न । मासेन पूर्वो मासपूर्वः तस्मै मासपूर्वाय इत्येव, न तु पूर्वस्मै इति ।।

१७४ । द्वन्द्वे च । (१-१-४१)

द्वन्द्वसमासे च न सर्वनामता । वर्णाश्च आश्रमाश्च इतरे च

वर्णाश्रमेतराः इति द्वन्द्वे वर्णाश्रमेतराणाम् इत्येव रूपं, न तु इतरेषामिति ॥

१७५ । विभाषा जसि । (१-१-३२)

जसि, (प्रथमाबहुवचनस्थाने) यत् कार्यं तत्र वा द्वन्द्वस्य सर्व-

नामता । वर्णाश्रमेतरे, तराः इति च रूपम् ॥

१७६ । प्रथमचरमतयाल्पार्धकतिपयनेमाश्च । (१-१-३३)

प्रथमादयोऽपि जसि वा सर्वनामकार्य लभेरन् । तत्र नेमशब्दः सर्वादौ पठित इति तस्य प्राप्ते विभाषा; अन्येषां त्वप्राप्ते । प्रथमे, प्रथमाः इत्यादिरूपविकल्पः फलम् ||

१७७ । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थाया-मसंज्ञायाम् । (१-१-३४

)

१७८ । स्वमज्ञातिधनाख्यायाम् । (१-१-३५)

१७९ । अन्तरं बहिर्योगोपसंव्यानयोः (१-१-३६)

सर्वादिगणे गणसूत्रतया पठितमेव सूत्रत्रयमिदं जसि विकल्प- विधानार्थ प्रकरणेऽत्र पुनः पठ्यते । पूर्वादयो जसि पिकल्पेनैव सर्व- नामानीत्यर्थः । तेन च पूर्वे, पूर्वाः इत्यादि रूपाणि ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/९९&oldid=407424" इत्यस्माद् प्रतिप्राप्तम्