अयकपूर्वाया अपि इत्वविकल्पार्थोऽयं योगः । नित्यस्त्रीलिङ्गा- द्विहितखाप: स्थाने जातस्य कात्पूर्वस्यातः इत्वं वा आपि । यथा— खट्विका, खट्वाका; । मालिका, मालाका ।
१३४ । आदाचार्याणाम् । (७-३-४९)
पूर्वसूत्रविषये इत्वापवाद आत्वमाचार्याणां मते । यथा— खटवका — खट्वाका; मालका—मालाका | इति स्त्रीप्रत्ययाः ।
सुबन्तप्रक्रिया
अथ लिङ्गविशिष्टेभ्यः प्रातिपदिकेभ्य उत्पन्नाया विभक्तेः प्रक्रियोच्यते- १६५ । स्वौजस, -मौद् छष्, टा भ्यां भिस्, ङे भ्यां भ्यस्, ङसि भ्यां भ्यस्, ङसोसाम्।ङयोस्सुप् (४-१-२) ङयाप्प्रातिपदिकात् इत्यधिकृतम् ; ङयाविति स्त्रीप्रत्ययोपलक्ष- णम् । लिङ्गविशिष्टात् प्रातिपदिकात् स्वौजसादयः प्रत्ययाः स्युः एषामर्थो यथास्थानं वक्ष्यते । अथैषां प्रत्ययानां विभागः कथ्यते—
‘त्रीणि त्रीणि एकवचनद्विवचन बहुवचनान्येकशः' इत्यंशेऽनुवर्तमाने-
१६६ । सुपः । (१-४-१०३)
सुबिति स्वौजसादीनां प्रत्याहार: 'स्वौ' इति सुकारादारभ्य ‘सुप्' इति पकारेण । स्वादीनां एकैकं त्रिकं एकवचन -द्विवचन- बहुवचनसंज्ञं स्यात् । तथा च – स्वादिषु सप्तानां त्रिकाणां प्रथममेक-चचनम्, द्वितीयं द्विवचनम्, तृतीयं बहुवचनम् । एषां विनियोगो-ऽन्यत्रोक्त:-
१६७ । बहुषु बहुवचनम् । (१-४-२१)
१६८ । कयोर्द्विवचनैकवचने । (१-४-२२)