सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol1.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम् ]
६९
परिनिष्ठाकाण्ड: ।


'कृदिकारादक्तिनः'। तिन्प्रत्ययान्तवर्ज सर्वेभ्योऽपि कृदिकारान्तेभ्योवा ङीषू स्यात् । यथा - रजनिः, रजनी ;रात्रिः, रात्री; भूमिः, भूमी ; श्रेणिः, श्रेणी;अवनिः, अवनी; कोटिः, कोटी ।

१५५ । पुंयोगादाख्यायाम् (नित्यं) । (४-१-४८)

यः पुंलिङ्गशब्दो दाम्पत्यसंबन्धेन स्त्रियां वर्तते तस्माददन्तात् ङीष् स्यात्।यथा- गणकस्य स्त्री गणकी महामात्रस्य स्त्री महामात्री शंकरस्य स्त्री शंकरी नारायणस्य स्त्री नारायणी शूद्रस्य स्त्री शूद्री ।

१५६ । इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययव- यवनमातुलाचार्याणामानुक् । (४-१-४९)

इन्द्रादिभ्यः पुंयोगे ङीष्, आनुगागमञ्च तत्संनियोगेन । कित्त्वात् प्रकृतेरन्तावयव आगमः ॥ इन्द्रस्य स्त्री=इन्द्रानी==इन्द्राणी [रेफसांनिध्यान्नस्य णः] वरुणस्य स्त्री = वैरुणानी; मृडस्य स्त्री मृडानी । भवस्य स्त्री भवानी; शर्वस्य स्त्री = शर्वाणी ; रुद्रस्य स्त्री = रुद्राणी । अन्येषामर्थविशेषमाह वार्त्तिककार: १. हिमारण्ययोर्महत्त्वे | महद्धिमं = हिमानी ; महदरण्यं = अरण्यानी । 2. यवाद्दोषे । दुष्टो यवो = यवानी । 3. यवनाल्लिप्याम । यवनानां लिपिः = यवनानी । 4. उपाध्यायमातुलाभ्यां वा । उपाध्यायस्य स्त्री= उपाध्यायानी, उपाध्यायी वा । मातुलस्य स्त्री = मातुलानी, मातुली वा । 5. आचार्यादणत्वं च | आचार्यस्त्र स्त्री = आचार्यानी । अत्र णत्वाभावोऽपि । 6. आर्यक्षत्रियाभ्यां वा जातौ । आर्यजातिः स्त्री = आर्याणी, आर्या वा ।क्षत्रियजातिः स्त्री = क्षत्रियाणी, क्षत्रिया वा (पुंयोगे तु) आर्थी, क्षत्रियी इति ङीषेव ।

  • णत्वनिमित्तानि तत्प्रकरणे वक्ष्यन्ते ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/८८&oldid=407319" इत्यस्माद् प्रतिप्राप्तम्