व्योरिति वकारयकारयोः षष्ठीद्विवचनम् । 'भो... अपूर्वस्य' इत्यनुवर्तते । 'पदस्य' इत्यधिकारोऽप्यस्ति । भोभगो अघोपूर्वयोरवर्ण- पूर्वयोर्वा पदान्तयकारवकारयोर्लघुप्रयत्नतरौ यकारवकारौ स्यातामशि परे । इदं च शाकटायनस्याचार्यख मतम् । उक्तविधौ यकारवकारौ यत्नं लघुकृत्य ध्वनिशैथिल्येनोच्चार्यावित्यर्थः ॥
८६ । लोपः शाकल्यस्य । (८-३-१९)
उक्तविधयोर्यवयोः श्रवणमेव मास्त्विति शाकल्य आचार्यो मन्यते ॥
८७ । ओतो गार्ग्यस्य । (८-३-२०)
ओकारात् परयोरेव यवयोरुक्तनिमित्ते लोपमिच्छति गार्ग्य आचार्यः ।।
८८ । हलि सर्वेषाम् । (८-३-२२)
अचि परे एव पक्षभेदाः, हलि परे तु यवयोर्लोप एव सर्वाचार्य- संमत: । एतेन अचि परे यशयुज्ज्वलम्, यशयुंज्ज्वलम्, यश उज्ज्वलम् इति त्रीणि रूपाणि । हलि (हशेव संभवति) तु — वेधा वन्द्यः, भो गच्छ— इति लुप्तयकारमेव रूपम् ।। अत्रायमाचार: कविसंप्रदायात्-अवर्णपूर्वयोः पदान्तयोर्यवयो- लघुप्रयत्नतरौ लोपो वा विधीयते; अवर्णपूर्वी यवौ च अय्, अव्, आय्, आव् इत्येवंरूपौ । चत्वार्यप्येतानि 'एचोऽयवायावः' (४४) इत्यनेन विधीयन्ते ; अय्, आय् इति यान्ते द्वे 'भोभ... अपूर्वस्य (८४) इत्यनेन च । तत्र रोर्यत्वेन (८४) निष्पन्नो यकारः सर्वत्र लुप्यते, एच आदेशै: (४४) निष्पन्नेष्वपि एङादेशयोः अयवोर्यवौ लुप्येते, ऐजा- देशयोरायावोस्तु अलघुनैव प्रयत्नेन उच्चार्येते इति । तथा हि देवस् + इह = देव इह ८६ लोपः । देवास् + इह देवा इह " " देवे + इह = देव इह " " गुरो + इह = गुर इह ८६ लोपः । तस्मै + इह = तस्मायिह " उच्चारणम् देवौ + इह =देवाविह " "
उचारण