सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol1.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्] ।
३५
शिक्षाकाण्डः ।

कु:' (६२) इत्यस्यापवादोऽपि सूत्रेऽस्मिन् मिश्रीकृत्योच्यते । (१) 'छशो: षः' (२) 'ब्रश्चभ्रस्जसृजमृजयजराजभ्राजां च' इति यद्याचार्यो विभज्य सूत्रमकरिष्यत्तर्हि स्पष्टतरमभविष्यत् । झलि पदान्ते च छकारशकारयोः ष आदेशः, ब्रश्चादीनां च कुत्वापवादः षः इत्यर्थः । यथा- पदान्ते झलि परे छान्तस्य – प्राच् = प्राष् ( = प्राड् ) शान्तस्य‌-नश्=नष् (=नडू ) व्रश्चादेः – सृज् = सृष् ( = सृड्)) प्रछ् + तम् = प्रष् तं (पृष्टम् ) | नश् + तम् = नषू तं (नष्टम् ) । सृज् + तम् = सृष्: तं (सृष्टम् ) ।

६८ । एकाचो बशो भष् झषन्तस्य स्ध्वोः । (८-२-३७)

धातोरित्यनुवर्तते ; एक

अच् यस्मिन् स वर्णराशिरेकाच् इति, सूतेषु प्राय एकाच्शब्दो बहुव्रीहिः । धातोरवयवभूतस्य झषन्तस्य च एकाचो वर्णराशेः संबन्धी यो बश् तस्य भष् आदेश: पदान्ते, सकार- ध्वप्रत्यययोश्च परयोः । झष इति घोषाणां प्रत्याहार :; भष् इति बश इति च चवर्गवर्जे घोषमृद्वोः । यथा— पदान्ते–दह् (६४) = दघ् = धघ् ( = धग्) गोदुघ् = गोधुघ् ( = गोधुग्) मित्रद्रुद्द् (,,) = मित्रद्रुघ् = मित्रध्रुघ् (= मित्रध्रुग्) (६५) = मित्रद्रुढ् = मित्रध्रुद् ( = मित्रध्रुङ् ) सकारे—दह् + स्यति = धक्ष्यति । ध्वप्रत्यये – अबुध् + ध्वम् = अभुवम् ।

६९ । झलां जशोऽन्ते । (८-२-३९)

पदान्ते झलां जश आदेशाः स्युः । झलिति पञ्चमवर्ज वर्ग्याणां ऊष्मणां च प्रत्याहारः । जशिति मृदूनां (वर्गतृतीयानां) । तवान्तरतम्य- परीक्षायां वर्गान्तानां स्वस्ववर्गीयो मृदुरादेशः । ऊष्मणां तु मध्ये ‘... छशां षः' (६७), 'हो ढ:' (६३), 'ससजुषो रु:' (७०) इति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/५२&oldid=407055" इत्यस्माद् प्रतिप्राप्तम्