स्वतन्त्रसंकेतानामनुरोधेन बालसुगमं कमपि विषयविभागं पाणिनिर्न
कृतवान् । विषयश्च प्रकृत्या कर्कश: । मूलस्य तावदवस्थेयम् । व्याख्यानानां तु दशा शोच्यतरेति पूर्वमेव किल प्रतिपादितम् । एवं च
पाणिनीयं तन्त्रं परिखाभिः प्राकारैश्च परिक्षिप्तं दुर्गमिव दुरासदं
संवृत्तम् । दुर्गेऽस्मिन् प्रविविक्षूणां पुरातनैरुद्घाटितं द्वारद्वयं वर्तते-
काशिकाकृतमेकम्, रूपावतारकृतमन्यदिति । तत्र च प्रथमेन (द्वारेण )
प्रविशन् दिदृक्षुः पुरुषो रथ्योपरथ्याक्रमेण बम्भ्रम्यमाणः सर्वतो नीतोऽपि तत्रत्यानामद्भुतपदार्थानां शकलीकृत्य तत इतो विकीर्णत्वात् पृथक्कृतान् एकदेशानेव पश्यति, न तु समग्रं किमपि दृश्यं वस्तु । द्वितीयेन
तु प्रविशन् शकलीकृत्य विक्षिप्तानेकदेशानुच्चित्य यथास्थानं विनिवेश्य
समग्रीकर्तुं पुरः पश्चात् पार्श्वयोश्च पदे पदे विकृष्यमाण आयास्यते ।
एवं च द्वाराभ्यामुभाभ्यामपि प्रवेशे क्लेश एव प्रविष्टस्य । अतो वयं
प्रकटमिदं प्राचीनैः प्रहतं द्वारद्वयमपि विहाय पक्केष्टकचितास्वपि प्राकारभित्तिषु तत्र तत्र सुलभैर्जालमार्गैर्बालानन्तः प्रवेश्य, तत्र च सुखसंवासोचितासु विरलास्वपि कासुचिद्वलभीषु निवेश्य दूरदर्शिनीप्रभृतीनां
नवीनदृष्टानां यन्त्राणां साहाय्येन दूरविकीर्णानि शकलानि संनिधाप्यावश्यदर्शनीयं सर्वमप्यर्थजातं दर्शयिष्यामः ॥
तथा च ग्रन्थेऽस्मिन् प्राचीनं प्रस्थानद्वयमुपेक्ष्य नवीनमेकं प्रस्थानमुल्लिखितम् । काशिकावृत्त्यादिष्विव सूत्राणां पाठक्रमेण व्याख्याने रूपसिद्धिकथनं न चारु स्यात्; कौमुदीरूपावतारादिष्विव रूपसिद्ध्यपेक्षया क्रममुपेक्ष्य व्याख्याने, प्रकरणाधिकारानुवृत्त्यादीनामयोगात् सूत्रार्थबोधो दुर्घटो भवति; अतः संमिश्रः कोऽपि मार्गोऽत्र गृहीतः ॥