३८४ । अवाच्चालम्बनाविदूर्ययोः । (८-३·६८)
स्तम्भेः षः स्यात् उक्तयोरर्थयोः । यथा - अवष्टभ्यास्ते – आलम्बने । अवष्टब्धा सेना- -आविदूर्ये (सामीप्ये) ।
३८५ । वेश्च स्वनो भोजने । (८-३-६९)
विपूर्वस्य स्वनतेः भोजनेऽर्थे षत्वम् । यथा - विष्वणति — सशब्दं भुत इत्यर्थ प्रत्यु० – ('भोजने' किम् ?) विस्वनति मृदङ्गः ।
३८६ । परिनिविभ्यः सेव-सित-सय--सिवु सह सु-स्तु स्वञ्जाम् । (८-३.७०)
परि, नि, वि इत्युपसर्गेभ्यः सेवादीनां सस्य षः । यथा— परिषेवते–निषेवते- -विषेवते । परिषहते — निषहते — विषहते । सुट् – परिष्करोति – पर्यष्करोत् इत्यादि । ‘उपसर्गात् सुनोति...' इत्येव सिद्धे स्तुस्वञ्जोर्ग्रहणमुत्तरसूत्रेण अव्यवाये विक-
ल्पार्थम् ।
३८७ । सिवादीनां वाव्यवायेऽपि । (८-३-७१)
पूर्वसूत्रोक्तेषु सिवादीनाम् अव्यवायेऽपि विकल्पेन षत्वम् ; सितात् प्राक् तु नित्यमुक्तं (३७९)। तथा च सितात् परं अव्यवाये कथञ्चिदपि न षत्वम् ।
यथा-- व्यसहत, व्यषहत । पर्यसहत, पर्यषहत इत्यादि |
३८८
अत्र धः इति धकारस्य स्थानिनो ग्रहणात् मूर्धन्यो ढकारः । इणन्तादङ्गात् परेषां षीध्वंलुङ्लिटां धकारस्य ढः स्यात् । 'षीध्वम्' इति आत्मनेपदाशीर्लिङ्. मध्यमबहुवचनप्रत्ययरूपम् । यथा- च्यु–च्योषीढम्-षीढम् । च्यु-अच्योढम् लुङ् । कृ—चकृढे – लिट् । ‘इएकोः' इत्यधिकारे 'इणः' इति पुनर्ग्रहणं कोर्निवृत्त्यर्थम् । तेन पच-पक्षीध्वं, यज्– यक्षीध्वम् इत्यादौ न मूर्धन्यः ।३८८ | इणः षीध्वंलुलिटां धोऽङ्गात् । (८-३-७८) अत्र धः इति धकारस्य स्थानिनो ग्रहणात् मूर्धन्यो ढकारः । इणन्तादङ्गात् परेषां षीध्वंलुङ्लिटां धकारस्य ढः स्यात् । 'षीध्वम्' इति आत्मनेपदाशीर्लिङ्. मध्यमबहुवचनप्रत्ययरूपम् । यथा- च्यु–च्योषीढम्-षीढम् । च्यु-अच्योढम् लुङ् । कृ—चकृढे – लिट् । ‘इएकोः' इत्यधिकारे 'इणः' इति पुनर्ग्रहणं कोर्निवृत्त्यर्थम् । तेन पच-पक्षीध्वं, यज्– यक्षीध्वम् इत्यादौ न मूर्धन्यः|
३८९ । विभाषेटः । (८-३-७-९)
इणः परात् इटः उत्तरेषां पीध्वंलुङ्लिटां ढो वा । यथा- लु– लविषीध्वं, लविषीढम् । लुलुविध्वे, लुलुविढे ।