अथान्वादेशरूपाणि- किञ्चित् कार्य विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानम् अन्वादेशः । नाम्नामन्वादेशे सर्वनामान्युपयुज्यन्ते । सर्वनाम्नामप्यन्वा- देशे क्वचित् सर्वनामान्तराणि सन्ति; किं त्वेतानि खिलत्वात् कासु-चिदेव विभक्तिषु । तत्र युष्मदस्मदोरन्वादेशरूपाणि प्रथममुच्यन्ते - {{center।३५३ । पदस्य । (८-१-१६)}}
३५४ । पदात् । (८-१-१७)
३५५ । अनुदात्तं सर्वमपादादौ । (८-१-१८)
इदं सूत्रत्रयमधिक्रियते । वक्ष्यमाणं पदस्रैव । तच्च पदात् परम् अदादिस्थं च भवितुमर्हति । वाक्यादौ पादादौ च न भवतीत्यर्थः
३५६ । युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ । (८-१-२०)
श्रूयमाणषष्ठीचतुर्थीद्वितीयान्तयोः (अत एव पदयोः) युष्मदस्मदोः वां नौ इति यथासंख्यमादेशौ ।
३५७ । बहुवचनस्य वस्त्रसौ । (८-२-२१)
षष्ठीचतुर्थीद्वितीयाबहुवचनान्तयोरनयोः वस्, नस् इत्यादेशौ ॥
३५८
उक्तविभक्त्येकवचनान्तयोः ते, मे इत्यादेशौ । एवं च पारि-शेष्यात् वांनावादेशौ द्विवचनस्यैव ||{{center| ३५९ । त्वामौ द्वितीयायाः । (८-१-२३
द्वितीयैकवचनान्तयोः तेमयोरपवादौ त्वा, मा इत्यादेशौ दान्हियते- “श्रीशस्त्वावतु मापीह दत्तात्ते मेऽपि शर्म सः । स्वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः ॥ सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः । सोऽव्याद्वो नः शिवं वो नो दद्यात् सेव्योऽत्र वः स