सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol1.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
[सुबन्त
लघुपाणिनीये

अथान्वादेशरूपाणि- किञ्चित् कार्य विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानम् अन्वादेशः । नाम्नामन्वादेशे सर्वनामान्युपयुज्यन्ते । सर्वनाम्नामप्यन्वा- देशे क्वचित् सर्वनामान्तराणि सन्ति; किं त्वेतानि खिलत्वात् कासु-चिदेव विभक्तिषु । तत्र युष्मदस्मदोरन्वादेशरूपाणि प्रथममुच्यन्ते - {{center।३५३ । पदस्य । (८-१-१६)}}

३५४ । पदात् । (८-१-१७)

३५५ । अनुदात्तं सर्वमपादादौ । (८-१-१८)

इदं सूत्रत्रयमधिक्रियते । वक्ष्यमाणं पदस्रैव । तच्च पदात् परम् अदादिस्थं च भवितुमर्हति । वाक्यादौ पादादौ च न भवतीत्यर्थः

३५६ । युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ । (८-१-२०)

श्रूयमाणषष्ठीचतुर्थीद्वितीयान्तयोः (अत एव पदयोः) युष्मदस्मदोः वां नौ इति यथासंख्यमादेशौ ।

३५७ । बहुवचनस्य वस्त्रसौ । (८-२-२१)

षष्ठीचतुर्थीद्वितीयाबहुवचनान्तयोरनयोः वस्, नस् इत्यादेशौ ॥

३५८

उक्तविभक्त्येकवचनान्तयोः ते, मे इत्यादेशौ । एवं च पारि-शेष्यात् वांनावादेशौ द्विवचनस्यैव ||{{center| ३५९ । त्वामौ द्वितीयायाः । (८-१-२३

द्वितीयैकवचनान्तयोः तेमयोरपवादौ त्वा, मा इत्यादेशौ दान्हियते- “श्रीशस्त्वावतु मापीह दत्तात्ते मेऽपि शर्म सः । स्वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः ॥ सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः । सोऽव्याद्वो नः शिवं वो नो दद्यात् सेव्योऽत्र वः स

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१४५&oldid=408287" इत्यस्माद् प्रतिप्राप्तम्