३३४ । ङेप्रथमयोरम् । (७-१-२८)
आभ्यां चतुर्थ्येकवचनस्य प्रथमाद्वितीययोश्च अम् इत्यादेशः ।
३३५ । शसो न । (७-१-२९)
आभ्यां शसो नकारोऽन्तादेशः । अमोऽपवादः ।
३३६ । भ्यसो भ्यम् । (७-१-३०)
आभ्यां भ्यसो भ्यं, चतुर्थीबहुवचनस्यायमादेशः । पञ्चमीबहुवचनस्य तु
३३७ । पञ्चम्या अत् । (७-१-३१)
आभ्यां पञ्चम्या भ्यसः अत् इत्यादेशः ।
३३८ । एकवचनस्य च । (७-१.३२)
आभ्यां पञ्चम्या एकवचनस्य (ङसे:) च अत् इत्यादेशः ।
३३९ । साम आकम् । (७-१-३३)
साम् इति कृतसुट्कस्य आमो निर्देशः । सुटो निवृत्त्यर्थं ससुटकस्य आदेश-विधानम् । एवं प्रत्ययानामादेशाः ।अथ प्रकृते विकाराः-
३४० । युष्मदस्मदोरनादेशे (आ) । (७-२-८६)
पुष्मदस्मदोः अनादेशरूपायां विभक्तौ परतः आकारोऽन्तादेशः स्यात्
३४१ । द्वितीयायां च । (७-२-८७)
युष्मदस्मदोराकारोऽन्तादेशः ।
३४२
प्रथमाद्विवचने च अनयोराकारोऽन्तादेशः । भाषायामेव न तु छन्दसि
३४३ । योऽचि । (७-२-८९)
अजादौ अनादेशरूपायां विभक्तौ युष्मदस्मदोर्यकारोऽन्तादेशः स्यात्
३४४
उक्तादन्यः शेषः । आकारयकारादेशयोरविषये युष्मदस्मदोरन्त्यस्य लोपः स्यात् ।
पञ्चम्याश्च चतुर्थ्याश्च षष्ठीप्रथमयोरपि । यान्यद्विवचनान्यत्र तेषु लोपो विधीयते ॥”
३४५ । मपर्यन्तस्य । (७-२-९१)
अधिकारोऽयम् । इतः परं वक्ष्यमाणा युष्मदस्मदोरादेशाः युष्म्, अस्म् इति
मपर्यन्तांशस्य बोध्याः । ,